SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका २०१ युक्तायुक्त प्राणायाम फल १६. प्राणायामादियुक्तेन सर्वरोगक्षयो भवेत् । आयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः ॥ १७. हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः । भवंति विविधा रोगाः पवनस्य प्रकोपतः ।। १८. युक्तं युक्तं त्यजेद्वायु युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च वध्नीयादेवं सिद्धिमवाप्नुयात् ।। १६. यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कांतिस्तदा जायेत निश्चितम् ।। २०. यथेष्टधारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ।। २१. मेदः श्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ।। २२. धौतिर्ब स्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट् कर्माणि प्रचक्षते ॥ २३. कर्मषटकमिदं गोप्यं घटशोधनकारकम् । विचित्रगुणसंधायि पूज्यते । योगिपुंगवैः ।। धौति-कर्म २४. चतुरंगुलविस्तारं हस्तपंचदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् ॥ पुनः प्रत्याहरेच्चैतदुदितं धौति कर्म तत् ॥ २५. कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेन प्रत्यांत्येव न संशयः ॥ बस्ति कर्म २६. नाभिदघ्नजले पायौ त्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं वस्तिकर्म तत् ।। २७. गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेन क्षीयते सकलामयाः ॥ २८. धात्विद्रियांतःकरणप्रसादं दद्याच्च कांति दहनप्रदीप्तिम् । अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलवस्तिकर्म ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy