SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०० चित्त-समाधि : जैन योग २. चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । ___योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ।। ३. यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । ___ मरणं तस्य निष्क्रांतिस्ततो वायुं निरोधयेत् ।। मलशोधन की महत्ता ४. मलाकुलासु नाडीष मारुतो नैव मध्यगः । ___कथं स्यादुन्मनीभावः कार्य सिद्धिः कथं भवेत् ॥ ५. शुद्धिमेति यदा सर्वं नाडीचक्र मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ।। ६. प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्नानाडीस्था मला: शुद्धि प्रयांति च ॥ ७. बद्धपद्मासनो योगी प्राणं चंद्रेण पूरयेत् । धारयित्वा यथाशक्तिः भूयः सूर्येण रेचयेत् ।। ८. प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्स्तंभकं कृत्वा पुनश्चंद्रण रेचयेत् । है. येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ।। प्राणायाम का अवान्तर फल १०. प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिंगलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्याचंद्रमसोरनेन विधिनाभ्यासं सदा तन्वतां, शुद्धा नाडिगणा भवंति यमिनां मासत्रयादूर्ध्वतः॥ ११. प्रातमध्यंदिने सायमर्धरात्रे च कुंभकान् । शनैरशीतिपर्यंतं चतुर्वारं समभ्यसेत् । १२. कनीयसि भवेत्स्वेदः कंपो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ।। १३. जलेन श्रमजातेन गात्रमर्दनमाचरेत् । दृढ़ता लघुता चैव तेन गात्रस्य जायते ॥ १४. अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढ़ीभूते न तादृङ् नियमग्रहः ।। १५. यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हंति साधकम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy