SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ हठयोगप्रदीपिका ५८. अभ्यसेन्नाडिकाशुद्धि मुद्रादिपवनक्रियाम् । आसनं कुंभक चित्रं मुद्राख्यं करणं तथा ।। ५६. अथ नादानुसंधान- मभ्यासानुक्रमो हठे । ब्रह्मचारी मिताहारी त्यागी योगपरायणः ।। अब्दादूवं भवेत्सिद्धो नात्रकार्या विचारणा । ६०. सुस्निग्धमधराहारश्चतुर्थांश विवजितः । भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते ॥ ६१. कट्वम्लतीक्ष्ण- लवणोष्ण- हरीत- शाकसौवीरतैलतिल सर्षपमद्यमत्स्यान् । प्राजादिमांसदधितक्रकुलत्थ कोलपिण्याकहिंगु लशुनाद्यमपथ्यमाहु॥ ६२. भोजनम हितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणमम्लयुक्तं कदशनशाकोत्कटं वय॑म् ।। ६३. वह्निस्त्रीपथिसेवानामादौ वर्जनमाचरेत् ॥ योगियों को पथ्याहार ६४. गोधूमशालियवषाष्टिक शोभनान्नंक्षीराज्यखण्डनवनीत सितामधनि । शंठी- पटोलक- फलादिक- पंचशाकमुद्गादि दिव्यमुदकं च यमींद्रपथ्यम् । ६५. पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६६. युवा वृद्धोऽति वृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्वयोगेष्वतंद्रितः ।। ६७. क्रिया युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ ६८. न देषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ।। ६६. पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ।। द्वितीय उपदेश प्राणायाम १. अथासने दृढ़े योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy