________________
१६८
चित्त-समाधि : जैन योग
पद्मासन
४६. वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा ।
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ॥ अंगुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये
देतद्वयाधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ ४७. उत्तानो चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ । ४८. नासाग्रे विन्यसेद्राजदंतमूले तु जिह्वया ।
उत्तंभ्य चिबुकं वक्षस्युत्थाप्य पवनं शनैः । ४६. इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि । ५०. कृत्वा संपुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारम्वारमपानमूर्ध्वमनिलं
प्रोत्सारयन्पूरितं न्यंचन्प्राणमुपैति बोधमतुलं शक्ति-प्रभावान्नरः ॥ ५१. पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् ।
मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ सिंहासन ५२. गुल्फौ च वषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणे सव्यगुल्फ तु दक्षगुल्फ तु सव्यके ।। ५३. हस्तौ तु जान्वोः संस्थाप्य स्वांगुली: संप्रसार्य च ।
व्यात्तवक्रो निरीक्षेत नासाग्रं सुसमाहितः ।। ५४. सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः ।
बन्धत्रितयसंधानं कुरुते चासनोत्तमम् ॥ भद्रासन ५५. गुल्फौ च वृषणस्याध: सीवन्याः पार्श्वयोः क्षिपेत् ।
सव्यगुल्फ तथा सव्ये दक्षगुल्फ तु दक्षिणे ॥ ५६. पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत्सर्वव्याधि विनाशनम् ॥ ५७. गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः ।
एवमासनबंधेषु ___ योगींद्रो विगतश्रमः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org