SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चित्त-समाधि : जन योग वीरासन २३. एक पादं तथैकस्मिन्विन्यसेदुरुणि स्थितम् । इतरस्मिस्तथा चोरु वीरासनमितीरितम् ॥ कूर्मासन २४. गुदं निरुद्धय गुल्फाभ्यां व्युत्क्रमेण समाहितः । ___ कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ कुक्कुटासन २५. पद्मासनं तु संस्थाप्य जानोरंतरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ उत्तान कूर्मासन २६. कुक्कुटासनबंधस्थो दोभ्यां संबध्य कन्धराम् । ___ भवेत्कर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ धनुरासन २७. पादांगुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनमुच्यते ॥ मत्स्येन्द्रासन २८. वामोरुमूलार्पितदक्षपाद जानो बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनं स्यात् ॥ २६. मत्स्येंद्रपीठं जठरप्रदीप्ति प्रचंडरुग्मंडलखंडनास्त्रम् । ___ अभ्यासतः कुंडलिनीप्रबोधं चंद्रस्थिरत्वं च ददाति पुंसाम् ।। पश्चिमतान प्रासन ३०. प्रसार्य पादौ भुवि दंडरूपौ दोभ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशो वसेदिदं पश्चिमतानमाहुः ।। ३१. इति पश्चिमतानमासनायं पवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्यादुदरे कार्यमरोगतां च पुंसाम् । मायूरासन ३२. धरामवष्टभ्य करद्वयेन तत्कूपरस्थापितनाभिपार्श्व: । उच्चासनो दंडवदुत्थितः स्यान्मायूरमेतत्प्रवदंति पीठम् ॥ ३३. हरति सकलरोगानाशु गुल्मोदरादी नभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुयदिशेषं जनयति जठराग्नि जारयेत्कालकूटम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003671
Book TitleChitta Samadhi Jain Yog
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1986
Total Pages288
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy