________________
दशवेकालिके प्रथमाध्ययनम् ।
୨୯
विधोपि दृष्टान्त उक्तः । दृष्टान्तवाक्यं चेदं स तु संस्कृत्य कर्तव्योऽर्हदा दिवदिति गाथार्थः । उक्तः सप्तमोऽवयवः सांप्रतमष्टमम जिधित्सुराह ॥ तब वे आसंका, उदिस्स जई विकीरए पागो ॥ तेण र विसमं नायं, वासतणा तस्स पडिसेदे ॥ १५२ ॥ ॥ व्याख्या ॥ तत्र तस्मिन् दृष्टान्ते नवेदाशङ्का जवत्यादेपः । यथोद्दिश्याङ्गीकृत्य यतीनपि संयतानपि । अपिशब्दादपत्यादीन्यपि । क्रियते निर्वर्त्यते पाकः । कैः । गृहि जिरिति गम्यते । ततः किमित्यत आह । तेन कारणेन । र इति निपातः किलशब्दार्थः । विषममतुल्यं ज्ञातमुदाहरणं वस्तुतः पाकोपजी वित्वेन साधूनामनवद्यवृत्त्यजावादिति जावितमेवैतत् पूर्वमित्यष्टमोऽवयवः । इदानीं नवममधिकृत्याह । वर्षा - तृणानि तस्य प्रतिषेध इत्येतच्च जाष्यकृता प्राक् प्रपञ्चितमेवेति न प्रतन्यत इति गाथार्थः । उक्तो नवमोऽवयवः । सांप्रतं चरममनिधित्सुराह ॥ तम्हा उ सुरनराणं, पुद्यत्ता मंगलं सया धम्मो ॥ दसमो एस अवयवो, पन्नदेऊ पुणवयणं ॥ १५३ ॥ ॥ व्याख्या ॥ यस्मादेवं तस्मात्सुरनराणां देवमनुष्याणां पूज्यस्तद्भावस्तस्मात्पूज्यत्वान्मङ्गलं प्राग्निरूपितशब्दार्थं सदा सर्वकालं धर्मः प्रागुक्तः । दशम एषोऽवयव इति संख्याकथनम् । किं विशिष्टोऽयमित्यत श्राह । प्रतिज्ञाहेत्वोः पुनर्वचनं पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः । उक्तं द्वितीयं दशावयवं । साधनाङ्गता चावयवानां विनेयापेक्षया विशिष्टप्रतिपत्तिजनकत्वेन जावनीयेत्युक्तोऽनुगमः । सांप्रतं नया उच्यन्ते । तेच नैगमसंग्रह व्यवहाररुजु सूत्रशब्दसम निरूढैवंभूतभेद निन्नाः खल्वोघतः सप्त जवन्ति । स्वरूपं चैतेषामेवावश्यके सामायिकाध्ययनेऽन्यदणे प्रदर्शितमेवातो नेह प्रतन्यते । इह पुनः स्थानाशून्यार्थमेते ज्ञान क्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते । ज्ञाननयः क्रियानयश्च । तत्र ज्ञाननयदर्शनमिदं ज्ञानमेव प्रधानमै हिकामुष्मिकफलावा सिकारणं युक्तियुक्तत्वात्तथा चाह ॥ णायंमि गिरिहयचे, गिडियांमि चेव
मि ॥ जयवमेव इइ जो, उवएसो सो नर्ज नामं ॥ १५५ ॥ व्याख्या ॥ खायमिति । ज्ञाते सम्यक्परिन् । गिरिहयवेति । गृहीतव्य उपादेये । गिहियवं मिति । अगृहीतव्येऽनुपादेये हेय इत्यर्थः । चशब्दः खलूजयोर्ग्रहीतव्यागृही तयोर्ज्ञातत्वानुकर्षणार्थः । उपेक्षणीयसमुच्चयार्थो वा । एवकारस्त्ववधारणार्थः । तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः । ज्ञात एव गृहीतव्ये तथागृहीतव्ये तथोपेक्षणीये चार्थे तु - त एव नाज्ञाते । श्रमिति । श्रर्थेऽप्यैहिकामुष्मिके तत्रैहिको गृहीतव्यः स्रक्चन्दनाङ्गनादिः । गृहीतव्यो विषशस्त्रक एककादिः । उपेक्षणीयः तृणादिः । मुष्मिको गृहीतव्यः सम्यग्दर्शनादिः श्रगृहीतव्यो मिथ्यात्वादिः । उपेक्षणीयो विवक्षयाज्युदयादिरिति । तस्मिन्नर्थे यतितव्यमेवेति । अनुस्वारलोपाद्यतितव्यमेवमनेन क्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org