________________
दशवैकालिके प्रथमाध्ययनम् ।
งง
1
मित्ययमेवकार उपप्रदर्शने । तुरवधारणे। श्रयमेवावयवानां प्रमाणाङ्गलक्षणानां चतुर्णां प्रतिज्ञादीनां प्रतिपक्षो विपक्षः पञ्चमोऽवयव इति । श्राह । दृष्टान्तस्याप्यत्र विपक्ष उक्त एव तत्किमर्थं चतुर्णामित्युक्तम् । उच्यते । देतो: सपक्ष विपक्षाच्यामनुवृत्तिव्यावृतिरूपत्वेन दृष्टान्तधर्मत्वात्तद्विपक्ष एव चास्यान्तर्जावाददोष इत्युक्तः पञ्चमोऽवयवः । षष्ठ उच्यते । तथा चाह । इत उत्तरत्र षष्ठोऽवयवो विपक्षप्रतिषेधस्तं वक्ष्येऽनिधास्य इति गाथार्थः । इवं सामान्येनानिधायेदानी माद्यद्वय विपक्षप्रतिषेधम निधातुकाम ह । सायं संमत्तपुमं, हासरई आउनामगोयसुदं ॥ धम्मफलं श्राइपुगे, विवकप डिसेह मो एसो ॥ १४८ ॥ व्याख्या ॥ सायंति शातवेदनीयं कर्म । सं तं ति सम्यक्त्वं सम्यग्नावः सम्यक्त्वं सम्यक्त्वमोहनीयं कर्मैव । पुमंति पुंवेदमोहनीयं । हासंति हस्यतेऽनेनेति हासः । तद्भावो हास्यं हास्यमोहनीयम् । रम्यतेऽनयेति रतिः क्रीडाहेतुः रतिमोहनीयं कर्मैव । आयुः । नामगोयसुहं ति । अत्र शुनशब्दः प्रत्येकमभिसंबध्यते । अन्ते वचनात्ततश्च श्रायुः शुनं नामशुनं गोत्रशुजम् । तत्रायुः शुनं तीर्थकरा दिसंबन्धि । नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः । तथाहि यशो - नामादि शुनं तीर्थकरादीनामेव जवति । तथोच्चैर्गोत्रं तदपि शुनं तेषामेवेति । धर्मफलमिति । धर्मस्य फलं धर्मफलम् । धर्मेण वा फलं धर्मफलं एतदहिंसादेर्जिनोतस्यैव धर्मस्य फलम् | अहिंसादिना जिनोक्तेनैव च धर्मेणैव फलमवाप्यते । सर्वमेव चैतत्सुख हेतुत्वाद्धितम् । अतः स एव धर्मो मङ्गलं न श्वशुरादयः । तथाहि मङ्गयते हितमनेनेति मङ्गलम् । तच्च यथोक्तधर्मेणैव मङ्गयते नान्येन तस्मादसावेव मङ्गलं न जिनवचनबाह्याः ः श्वशुरादय इति स्थितम् । श्रह | मङ्गलबुलैव जनः प्रणमतीत्युक्तं तत्कथमित्युच्यते । मङ्गलबुद्ध्यापि गोपालाङ्गनादिर्मोह तिमिरोपलुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलत्वनिश्चयायालम् । तथाहि न तैमिरिक द्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते । तडूप एव तद्रूपाध्यारोपद्वारेण तत्प्रवृत्तेरिति । इडुगं ति । श्रद्यद्वयं प्रागुक्तं तस्मिन्नाद्यद्वयविषये विपक्षप्रतिषेधः । मो इति निपातो वाक्यालंकारार्थः । एष इति यथा वर्णित इति गाथार्थः । इमाद्यद्वय विपक्षप्रतिषेधः प्रतिपादितः । संप्रति हेतुतबुद्ध्योविपक्षप्रतिषेधप्रति पिपादयिषयेदमाह ॥ जिइंदिय सोव दिया, वहगा जइ ते विनाम पुति ॥ अग्गीवि होद्य सी, देउविजत्तीण परिसेहो ॥ १४५ ॥ व्याख्या ॥ न जितानि श्रोत्रादीनीन्द्रियाणि यैस्ते तथोच्यन्ते । उपविश्वद्म मायेत्यनर्थान्तरम् । उपधिना सह वर्तन्त इति सोपधयो मायाविनः परव्यंसका इति यावत् । अथवा उपदधातीत्युपधिः वस्त्राद्यनेकरूपः परिग्रहः । तेन सह वर्तन्ते ये ते तथाविधा
1
Jain Education International
For Private Personal Use Only
www.jainelibrary.org