________________
दशवैकालिके द्वितीया चूलिका ।
६७३
( अप्पा के० ) आत्मा एटले पोतानो आत्मा ( प डिसो मेव के० ) प्रतिस्रोत एव एटले विषय प्रवाह जे तरफ चाल्यो बे तेथी उलटोज ( दायवो के० ) दातव्यः एटले देवो. अर्थात् संयमानिमुख करवो. ॥ २ ॥
1
(दीपिका) एतद्धि प्रतिज्ञासूत्रम् । इह चाध्ययने चर्यागुणानिधेयास्तस्य प्रवृत्तौ मूलपादभूतमिदमाह । एवंविधेन साधुना श्रात्मा जीवः प्रतिस्रोतएव डुरपाकरणीयमपपाकृत्य विषयादिसंयमलक्ष्या निमुखमेव दातव्यः प्रवर्त्तितव्यः । न कुचरितान्युदादरणीकृत्य असन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम् । अपि त्वागमै कप्रवणेनैव जवितव्यम् । किं० साधुना । जवितुकामेन संसारसमुद्रपरिहारेण मुक्ततया जवितुकामेन । किंनूतेन साधुना । प्रतिस्रोतो लब्धलक्षण द्रव्यतस्तस्यामेव नद्यां कथंचित् देवतासां निध्यात् प्र तपस्रोतः प्राप्तल देण | जावतस्तु विषया दिवैपरीत्यात् कथंचित् प्राप्त संयम देण । क सति । बहुजने तथाविधादन्यासात् प्रभूतलोकेऽनुस्रोतः प्रस्थिते सति नदी - पूरप्रवाहपतितकाष्ठवत् । विषयकुमार्गद्रव्य क्रियानुकूल्येन प्रवृत्ते सति तथाप्रस्थानेनोदधिगामिनि सति ॥ २ ॥
( टीका. ) एतद्धि प्रतिज्ञासूत्रम् । इह चाध्ययने चर्यागुणा वनिधेयास्तत्प्रवृत्तौ मूलपादनूतमिदमाह । श्रणुसो ति सूत्रम् । अस्य व्याख्या | अनुस्रोतः प्रस्थिते नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्य क्रियानुकूल्येन प्रवृत्ते बहुजने तथा विधाज्यासात् प्रभूतलोके तथा प्रस्थानेनोदधिगामिनि । किमित्याह । प्रतिस्रोतोलब्धलक्ष्ये| द्रव्यतस्तस्यामेव नद्यां कथंचिद्देवतानियोगात्प्रतीपस्त्रोतः प्राप्तलक्ष्येण | जावतस्तु विषया दिवैपरीत्यात्कथं चिदवाप्तसंयमलक्ष्येण प्रतिस्रोत एव डुरपाकरणीयमप्यपाकृत्य विषयादिसंयमलक्ष्या निमुखमेवात्मा जीवो दातव्यः प्रवर्त्तयितव्यो जवितुकामेन संसारसमुद्र परिहारेण मुक्ततया जवितुकामेन साधुना । न कुजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम् । पित्वागमै कप्रवणेनैव जवितव्यमिति । उक्तं च। निमित्तमासाद्य यदेव किंचन, स्वधर्ममार्ग विसृजन्ति बालिशाः ॥ तपःश्रुतज्ञानधनास्तु साधवो न यान्ति कृत्रे परमेऽपि विक्रियाम् ॥ १ ॥ ॥ तथा कपालमादाय विषणवाससा, वरं द्विषद्वेश्मसमृद्धिरीहिता ॥ विहाय लकां न तु धर्मवैशसे, सुरेन्द्रसार्थेऽपि समाहितं मनः ॥ २ ॥ तथा ॥ पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं स एव विमध्यबुद्धिः ॥ प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः ॥ ३ ॥ इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ २ ॥
生
Jain Education International
For Private Personal Use Only
www.jainelibrary.org