________________
บง
दशवैकालिके प्रथमाध्ययनम् । प्रतिज्ञा।तथा देवा अपि।पिशब्दासिझविद्याधरनरपतिपरिग्रहः। लोकपूज्या लोकपूजनीयाःप्रणमन्ति नमस्कुर्वन्ति।कम्।सुधर्माणं शोजनधर्मव्यवस्थितमित्ययं हेत्वर्थसूचकत्वाखेतुरिति गाथार्थः॥ दिहंतो अरहंता, अणगारा य बहवो उ जिणसीसा॥ वत्तणुवत्ते नद्यश, जं नरवश्णो वि पणमंति ॥ए॥व्याख्या ॥ दृष्टान्तःप्राग्निरूपितशब्दार्थः। स चाशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तथानगाराश्च बहव एव जिनशिष्या इति।न गन्तीत्यगा वृदास्तैः कृतमगारं गृहं तद्येषां विद्यत इति अर्शश्रादेराकृतिगणवादच्प्रत्ययः। अगारा गृहस्थाः न अगारा अनगाराश्चशब्दः समुच्चयार्थः। तुरेवकारार्थस्ततश्च बहव एव नाल्पा रागादिजेतृत्वाजिनास्तविष्यास्तहिनेया गौतमादयः। श्राह।अर्हदादीनां परोकत्वादृष्टान्तत्वमेवायुक्तम्।कथं चैतहिनिश्चीयते।यथा ते देवादिपूजिता इत्युच्यते । यत्तावमुक्तं परोदत्वादिति । तदुष्टम्।सूत्रस्य त्रिकालगोचरार्थत्वात्कदाचित्प्रत्यदत्वाद्देवादिपूजिता इति चैतहिनिश्चयायाह । वृत्तमतिकान्तमनुवर्तमानेन सांप्रतकालनाविना ज्ञायते । कथमित्यत आह । यद्यस्मान्नरपतयोऽपि राजानोऽपि प्रणमन्तीदानीमपि नावसाधुं ज्ञानादिगुणयुक्तमिति गम्यते।अनेन गुणानां पूज्यत्वमावेदितं नवतीति गाथार्थः॥उवसंहारो देवा,जह तह राया विपणम सुधम्मं ॥ तम्हा धम्मो मंगल-मुकिमिश्थ निगमति ॥१॥ व्याख्या॥ उपसंहार उपनयः।स चायम्। देवा यथा तीर्थकरादींस्तथा राजाप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति।यस्मादेवं तस्माद्देवादिपूजितत्वाइमों मङ्गलमुत्कृष्टमिति च निगमनम्। प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन मिति गाथार्थः॥१॥ उक्तं पञ्चावयवमेतदनिधानात्वर्थाधिकारोऽपि धर्मप्रशंसा । सांप्रतं दशावयवं तथा स चैहैव जिनशासन इत्यधिकारं चोपदर्शयति । इह च दशावयवाः प्रतिज्ञादय एव प्रतिझादिशुद्धिसहिता नवन्ति । अवयवत्वं च तबुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञादीनामिव नावनीयमित्यत्र बहु वक्तव्यम् । तत्तु नोच्यते गमनिकामात्रत्वात् प्रारम्नस्येति । सांप्रतमधिकृतदशावयवप्रतिपादनायाह ॥ बिश्यपन्ना जिणसा-सणं मि साहेति साहवो धम्मं ॥ हेऊ जम्हा सब्जा-विएसु हिंसा सुजयंति ॥ए॥ व्याख्या ॥ द्वितीया पञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया प्रतिज्ञा पूर्ववत् । द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा ।सा चेयम्। जिनशासने जिनप्रवचने। किम्। साधयंति निष्पादयन्ति। साधवः प्रव्रजिताः धर्म प्राग्निरूपितशब्दार्थम्। इह च साधव इति धर्मि निर्देशः। शेषस्तु साध्यधर्म इत्ययं प्रतिशानिर्देशः। हेतुनिर्देशमाह । हेतुर्यस्मात्सान्नाविकेषु पारमार्थिकेषु निरुपचरितेष्वथेष्वित्यर्थः । अहिंसादिष्वादिशब्दान्मृषावादादिविरतिपरिग्रहः ।अन्ये तु व्याचदते, समाविएहिंति । सनावेन निरुपचरितसकलःखक्षयायैवेत्यर्थः। यतन्ते प्रयत्नं कुर्वन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org