________________
३४ राय धनपतसिंघ बदाडुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. व्याख्या ॥ चरितं च कल्पितं चेति द्विविधमुदाहरणम् । तत्र चरितमनिधीयते यद्वृत्तं तेन कस्यचिद्दान्तिकार्थप्रतिपत्तिर्जन्यते । तद्यथा दुःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं बुद्धि कल्पना शिल्प निर्मितमुच्यते । तेन च कस्य चिद्दाष्टन्तिकार्थप्रतिपत्तिर्जन्यते । यथा पिप्पलपत्रैर नित्यतायामिति । उक्तं च ॥ "जह तुने, तह अम्हे, तुने चि होहिहा जहा म्हे ॥ अप्पा उ पतं, पंपत्तं किसलयाणं ॥ वि
ए
।
वि होई, उल्लावो किसलपं पत्ताणं ॥ उवमा खलु एस कया, जविाजण विबोहहाए ||" इत्यादि । आह । उदाहरणं दृष्टान्त उच्यते तस्य च साध्यानुगमादि लक्षणमिति । उक्तं च ॥ साध्येनानुगमो हेतोः साध्यानावे च नास्तिता ॥ ख्याप्यते यत्र दृष्टान्तः स साधर्म्येतरा द्विधा ॥ अस्य पुनस्तलक्षणाभावात्कथमुदाहरणत्वमित्यत्रोच्यते तदपि कथंचित्साध्यानुगमादिना दाष्टन्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम् । इहापि च सोऽस्त्येवेति कृत्वा किं नोदाहरणतेति । साध्यानुगमा दिलक्षणमपि सामान्यविशेषोजयरूपानन्तधर्मात्मके वस्तुनि सति कथं चिद्भेदवादिन एव युज्यते नान्यस्यैकान्तभेदाभेदयोस्तदजावादिति । तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादि प्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव जिन्न - वस्तुधर्मत्वात्सामान्यस्य च परिकल्पितत्वादसत्त्वादिवमपि च तइलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरजया दिति । एवं सर्वथा दवा दिनोऽप्येकत्वादेव तदजावो जावनीय इति । अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य वस्तुनो गमकं जवत्यन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसंभव इति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । चरितं कल्पितं चेत्यनेन विधिना द्विविधम् । ततः पुनश्चतुर्विधं चतुःप्रकारमेकैकम् । कथमत आह। उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास इति । तत्रोदाहरणशब्दार्थ उक्त एव । तस्य देशस्तदेश एवं तद्दोषः । उपन्यसनमुपन्यासः स च तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः । सांप्रतमुदाहरणमनिधातुकाम याद || चहा खलु आहरणं, होइ अवार्ड उवाय ठवणा य ॥ तह य पकुप्पन्न विणा - समेव पढमं चविगप्पं ॥ ५४ ॥ व्याख्या ॥ चतुर्धा खलु उदाहरणं जवति । अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे नेदा जवन्ति । तद्यथा । अपायः । उपायः । स्थापना च । तथा च प्रत्युत्पन्न विनाशमेवेति । स्वरूपमेषां प्रपञ्चेन नेदतो नियुक्तिकार एव वक्ष्यति । तथा चाह । प्रथममपायोदाहरणं चतुर्विकल्पं चतुर्भेदम् । तत्रापायश्चतुः प्रकारः । तद्यथा । द्रव्यापायः क्षेत्रापायः कालापायो जावापायश्च इति गाथार्थः । तत्र द्रव्यादपायो ज्यापायः । श्रपायोऽनिष्टप्राप्तिः । १" स साधर्म्येतरो द्विधा " इति पाठान्तरम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org