________________
दशवेकालिके प्रथमाध्ययनम् ।
२३
तथा विपुलतरं तु प्रभूततरं तु कथयन्ति पुछाए ति । शिष्यप्रश्ने सति पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः ॥ एवं तावत्समासेन व्याख्यालक्षणयोजना ॥ कृतेयं प्रस्तुते सूत्रे कार्यैव परेष्वपि ॥ १ ॥ ग्रन्थ विस्तरदोषान्न वक्ष्यामः । उपयोगे तु वक्ष्यामः प्रतिसूत्रम् । यतः सूत्रस्पर्शकोऽधुना प्रोच्यते । अनुगम निर्युक्तिविभागश्च विशेषतः सामाकिबृहद्वाष्याज्ज्ञेयः सूत्रोदितः । यतः “ होइ कयछो वोत्तुं, सपयछेयं सुखं सुखागमे ॥ सुत्तालागता सो नामा दिसा सवि पिगं ॥ सुत्तप्फा सिखनिज- त्तिणिउंगासेसपाइ ॥ पायं सोविय नेगम - याइयगोरो होइ ॥ एवं सुत्ताणुगमो, सुत्तालाव - and t निरकेवो ॥ सुत्तफा सिणिकु - तिणया च वच्चंति समगं तु ॥" इत्यलं प्रसङ्गेन गम निकामात्रमेतत् । तत्र धर्मपदमधिकृत्य सूत्रस्पर्शक निर्युक्तिप्रतिपादनायाह ॥ णामं aaer धम्मो, धम्मो का जावधम्मो उ ॥ एएसिं नाणत्तं कुष्ठामि यहाणुपुत्री ए ॥३॥ व्याख्या ॥ णामं ववणा धम्मो ति । अत्र धर्मशब्दः प्रत्येकमभिसंबध्यते । नामधर्मः स्थापनाधर्मो द्रव्यधर्मो जावधर्मश्च । एतेषां नानात्वं नेदं वक्ष्येऽनिधास्ये यथानुपूर्व्या यथानुपरिपाट्येति गाथार्थः । सांप्रतं नामस्थापने कुलत्वादागमतोनोश्रागमतश्च ज्ञाश्रनुपयुक्त शरीरेतरभेदांश्चानादृत्य इशरीरजव्यशरीरव्यतिरिक्त द्रव्यधर्माद्यनिधित्सयाह ॥ दवं च कार्ड, पयारधम्मो का जावधम्मो का || दवस्स पद्यवा जे, ते धम्मा तस्स दव्वस्स ॥ ४० ॥ व्याख्या ॥ इह त्रिविधोऽधिकृतो धर्मः । तद्यथा द्रव्यधर्मः । - स्तिकायधर्मः प्रचारधर्मश्चेति । तत्र द्रव्यं चेत्यनेन धर्मधर्मिणोः कथं चिदभेदाद्द्रव्यधर्ममाह । तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमिति कृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति । प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह । जावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह । सांप्रतं प्रथमोद्दिष्टद्रव्यधर्मस्वरूपानिधित्सयाह । प्रव्यस्य पर्याया ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य । ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थो बहुवचननिर्देश इति गाथार्थः । इदानीमस्तिकायादिधर्मस्वरूपप्रति पिपाद विषयात् ॥ धम्मविकायधम्मो, पयारधम्मो य विसयधम्मो उ ॥ लोश्यकुप्पावयणिश्र - लोगुत्तरलोगणेगविहो ॥ ४१ ॥ व्याख्या ॥ धर्मग्रहणाद्धर्मास्तिकायपरिग्रहः । ततश्च धर्मास्तिकाय एव गत्युपष्टम्न को ऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये तु व्याचक्षते । धर्मास्तिकायादिस्वभावोऽस्तिकायधर्म इत्येतच्चायुक्तम् । तत्र धर्मास्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव । तुशब्दस्यैव कारार्थत्वात् । तत्र प्रचरणं प्रचारः । प्रकर्षगमनमित्यर्थः । स एवात्मस्वनावत्वाद्धर्मः प्रचारधर्मः । स च किम् । विषीदन्त्येतेषु प्राणिन इति विषया रूपादयस्तद्धर्म
1
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org