________________
२२ राय धनपतसिंघ बहाडुरका जैनागमसंग्रह नाग ४३ मा.
(6
धम्मो मंगलमु कि, अहिंसा संजमो तवो ॥ देवा वि तं नमसंति, जस्स धम्मे या मणो ॥ १ ॥ तत्रास्खलितपदोच्चारणं संहिता । सा पाठ सिद्धैव । श्रधुना पदानि । धर्मः मङ्गलम् उत्कृष्टम् श्रहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र “धृञ् धारणे” इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा "कृष विलेखने” इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपमुत्कृष्ट मिति । तथा "तृहि हिसि हिंसायाम्" इत्यस्य "इदितो नुम् धातोः" इति नुमि कृते रूपधिकारे टाबन्तस्य नञ्पूर्वस्येदं रूपं यडुताहिंसेति । तथा यमु उपरमे ” इत्यस्य धातोः संपूर्वस्याच्प्रत्ययान्तस्य संयम इति रूपं जवति । तथा " तप संतापे" इत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति । तथा " दिवु क्रीडा विजिगीषाव्यवहारद्युतिस्तुतिखकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति नवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति जवति । तथा नमसित्यस्य प्रातिपदिकस्य " नमो वरिवश्चित्रङः क्यच्” इति क्यजन्तस्य लट् क्रियान्तादेशस्ततश्च नमस्यन्तीति जवति । तथा यदिति सर्वनाम्नः षष्ठयन्तस्य यस्येति नवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले । “ सर्वेकान्यकिंयत्तदः काले दा" इति दाप्रत्ययः । “सर्वस्य सोऽन्यतरस्यां दि" इति स देशः । सदा । तथा " मन ज्ञाने” इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन इति जवति । इति पदानि । सांप्रतं पदार्थ उच्यते । तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः । तथा चोक्तम् " ॥ दुर्गतिप्रसृतान् जीवान् य-. स्माद्धारयते ततः ॥ धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥ " मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत् । उत्कृष्टं प्रधानम् । न हिंसा अहिंसा प्राणातिपात विरतिरित्यर्थः । संयम यावद्वारोपरमः । तापयन्त्यनेकजवोपात्तमष्टप्रकारं कर्मेति तपोऽनशनादि । दीव्यन्तीति देवाः क्रीडन्तीत्यादिनावार्थः । श्रपिः संजावने । देवा पि मनुष्यास्तु सुतरां तमित्येवंविशिष्टं जीवं नमस्यन्तीति प्रकटार्थम् । यस्य जीव। किम् । धर्मे प्रागनिहितस्वरूपे सदा सर्वकालं मन इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासनाक्त्वेनेह निबन्धनाजावान्न प्रदर्शित इति । चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद्वक्ष्यामः । प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शयन्नाह ॥ बइ पुन सीसो, कहिं वि पुट्ठा कहंति आयरिया ॥ सीसा तुहिया, विपुलतरागं तु पुछाए ॥ ३८ ॥ व्याख्या ॥ कचित्किंचिदनवगछन् पृष्ठति शिष्यः कथमेतदितीयमेव चालना, गुरुकथनं प्रत्यवस्थानमिवमनयोः प्रवृत्तिः। तथा कचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किंचित्कथ यन्त्याचार्याः । तत्प्रत्यवस्थानमिति गम्यते । किमर्थं कथयन्त्यत श्राह । शिष्याणामेव हितार्थम् । तुशब्द एवकारार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org