________________
१०० राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा.
1
नादधितेमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा जवन्ति । संस्वेदाजाता इति संस्वेदजा मत्कुणयूकाशतपदिकादयः । संमूर्तनाजाताः संमूर्तनजाः । शलज पिपी - लिकामदिकाशालूकादयः । उद्भेदाऊन्म येषां त उद्भेदाः । अथवा उद्भेदनमुद्भित् । उझिजन्म येषां त उनिजाः । पतङ्गखञ्जरीटपारिप्लवादयः । उपपाताजाता उपपातजाः । उपपाते जवा औपपातिका देवा नारकाश्च । एतेषामेव लक्ष्णमाह । येषां केषां चित्सामान्येनैव जीवानां प्राणिनामनिक्रान्तं जवतीति वाक्यशेषः । श्रजि - क्रमणमजिकान्तं जावे निष्ठाप्रत्ययः । प्रज्ञापकं प्रत्यनिमुखं क्रमणमित्यर्थः । एवं प्रतिक्रमणं प्रतिक्रान्तं प्रज्ञापकात्प्रतीपं क्रमण मिति जावः । संकुचनं संकुचितं गात्रसंकोचकरणम् । प्रसारणं प्रसारितं गात्रविततकरणम् । रवणं रुतं शब्दकरणम् । चमणं चान्तमितश्चेतश्च गमनम् । त्रसनं त्रस्तं दुःखाडुद्वेजनं पलायनं पलायितं कुतश्चिन्नाशनम् । तथागतेः कुतश्चित्कचित् । गतेश्च कुतश्चित्क्वचिदेव । विसाया ज्ञातारः । are | अनिकान्तप्रतिक्रान्ताच्यां नागतिगत्योः क्वचिद्भेद इति किमर्थं देना जिधानम् । उच्यते । विज्ञान विशेषख्यापनार्थम् । एतडुक्तं जवति । य एव विजानन्ति यथा वयमनिक्रमामः प्रतिक्रमामो वा । त एव त्रसा नतु वृतिं प्रत्यनिक्रमणवन्तोऽपि यादय इति । हैवमपि द्वीन्द्रियादीनामत्र सत्त्वप्रसङ्गः । अभिक्रमण प्रतिक्रमणजावेऽप्येवं विज्ञानाभावान्नैतदेवम् । हेतुसंज्ञाया अवगतेर्बुद्धिपूर्वक मिव बायात उमुष्णा वायां प्रति तेषामजिक्रमणादिजावात् । नचैवं वल्यादीनामजिक्रमणाद्योघसंज्ञायाः प्रवृत्तेरिति कृतं प्रसङ्गेन । अधिकृतत्रसभेदानाह । जे य इत्यादि । ये च कीटपतङ्गा इत्यत्र कीटाः कृमयः । एकग्रहणे तातीयग्रहणमिति द्वीन्द्रियाः शङ्खादोsपि गृह्यन्ते । पतङ्गाः शलजा यत्रापि पूर्ववच्चतुरिन्द्रिया जमरादयोऽपि गृह्यन्त इति । तथा याश्च कुन्थु पिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते । श्रतएवाह सर्वे द्वीन्द्रियाः कृम्यादयः । सर्वे त्रीन्द्रियाः कुन्थ्वादयः । सर्वे चतुरिन्द्रियाः पतङ्गादयः । याह । ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम् । उच्यते । विचित्रा सूत्रगतिरतन्त्रः क्रम इति ज्ञापनार्थम् । सर्वे पञ्चेन्द्रियाः सामान्यतो विशेषतः पुनः सर्वे तिर्यग्योनयो गवादयः । सर्वे नारका रत्नप्रजानारका दिभेद जिन्नाः । सर्वे मनुजाः कर्मजू मिजादयः । सर्वे देवा जवनवास्यादयः । सर्वशब्दश्चात्र परिशेषनेदानां त्रसत्वख्यापनार्थः । सर्व एवैते त्रसाः । नत्वेकेन्द्रिया श्व त्रसाः स्थावराश्चेति । उक्तं च । पृथिव्यम्बुवनस्पतयः स्थावरास्तेजोवायू द्वीन्द्रियादयस्त्रसा इति । सर्वे प्राणिनः परमधर्मा इति । सर्व एते प्राणिनो द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इत्यत्र परमं सुखं तद्धर्माण: सुखधर्माणः सुखानिलाषिण इत्यर्थः । यतश्चैवमित्यतो
I
1
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org