________________
१७० राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. यदा कृष्णमृदा कलुषितमुदकं जवति । तदा एषा कृष्णमृद् उदकस्य पाएमुमृदश्च शस्त्रं जवति । एवं च परिणतायां पृथिव्यामुञ्चारादिकरणेऽपि नास्ति तन्मरणं ततोऽहंसाधर्मः साधूनां संजवत्येव । एवमापश्चित्तवत्य श्राख्याताः । तेजश्चित्तवदाख्यातम् । वायुश्चित्तवानाख्यातः । वनस्पतिश्चित्तवानाख्यात इत्याद्यपि द्रष्टव्यम् ॥ ४ ॥
( टीका ) तं जहा । पुढविकाश्या इत्यादि । अत्र तद्यथेत्युदाहरणोपन्यासार्थः । पृथिवी काठिन्या दिलणा प्रतीता सैव कायः शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवी कायिकाः । स्वार्थिकष्टक् । आपो वाः प्रतीता एव ता एव कायः शरीरं येषां dscकायाः काया एव यष्कायिकाः । तेज उष्णलक्षणं प्रतीतं तदेव कायः शरीरं येषां ते तेजस्कायाः । तेजस्काया एव तेजस्कायिकाः । वायुश्चलनधर्मा प्रतीतः स एव कायः श रीरं येषां ते वायुकायाः । वायुकाया एव वायुकायिकाः। वनस्पतिर्लतादिरूपः प्रतीतः स एव कायः शरीरं येषां ते वनस्पतिकायाः । वनस्पतिकाया एव वनस्पतिकायिकाः । एवं त्रसनशीलासाः प्रतीता एव । त्रसाः कायाः शरीराणि येषां ते सकायाः ।
सकाया एव कायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवी - कायिकानामनिधानं तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानामपि तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानाम् । तदनन्तरं तेजस उपष्टम्नकत्वाद्वायुकायिकानाम् । तदनन्तरं वायोः शाखाप्रचलना दिगम्यत्वाद्वनस्पतिकायिकानाम् । तदनन्तरं वनस्पतेस्त्रसोपग्राहकत्वात्रसका विकानामिति । विप्रतिपत्तिनिरासार्थं पुनराह | पुढवीचित्तमंतमकाया । पृथिवी उक्तलक्षणा चित्तवतीति । चित्तं जीवलक्षणं तदस्यास्तीति चित्तवती सजीवेत्यर्थः । पाठान्तरं वा । पुढवि चित्तमत्तमरकाया । अत्र मात्रशब्दः स्तोकवाची । यथा सर्वपत्रिनागमात्रमिति । ततश्च चित्तमात्रा स्तोकचित्तेत्यर्थः । तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां तदद्भ्यधिकं द्वीन्द्रियादीनामिति । यख्याता सर्वज्ञेन कथिता । इयं चानेकजीवा । अनेके जीवा यस्यां सानेकजीवा । न पुनरेकजीवा यथा वैदिकानाम् पृथिवी देवतेत्येवमादिवचनप्रामाण्यादिति । अनेकजीवापि कैश्चिदेकभूतात्मापेक्ष्येष्यत एव । यथाहुरे ॥ एक एव हि भूतात्मा, जूते जूते व्यवस्थितः ॥ एकधा बहुधा चैत्र, दृश्यते जलचन्द्रवत् ॥ १ ॥ यत आह । पृथक्सत्वा पृथग्भूताः सत्त्वा श्रात्मानो यस्यां सा पृथक्सत्वा । अङ्गुला संख्येयनागमात्रावगाहनया पारमार्थिक्याने कजीवसमाश्रितेति जावः । श्राह । यद्येवं जीवपिएकरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंजवी साधुधर्म इत्यत्राह श्रन्यत्र शस्त्रपरिष
Jain Education International
For Private Personal Use Only
www.jainelibrary.org