________________
दशवैकालिके चतुर्थाध्ययनम् ।
१६
ho) अन्यत्र शस्त्रपरिणतात् एटले शस्त्रपरिणत वनस्पति वजींने शेष सर्व वनस्पति जेबे, ते सचित्त बे.
(दीपिका) श्रथ षड्जीव निकायमाह । तद्यथेति उदाहरणे । पृथिवी काठिन्यलक्षणा प्रतीता । सैव कायः शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवी कायिकाः (१) । श्रापो द्रवाः प्रतीता एव । ता एव कायः शरीरं येषां तेऽप्रकायाः । काया एव कायिकाः ( 2 ) । तेज उष्णस्पर्शलक्षणं प्रतीतम् । तदेव कायः शरीरं येषां ते तेजःकायाः तेजःकाया एव तेजःकायिकाः (३) । वायुश्चलनधर्मा प्रतीत एव । स एव कायः शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः (४) । वनस्पतिर्लतादिरूपः प्रतीतः । स एव कायः शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकाः ( २ ) । एवं त्रसनशीलाः साः प्रतीता एव । त एव कायाः शरीराणि येषां ते त्रसकायाः
सकाया एव सकायिका: ( ६ ) । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिaat किनामनिधानम् । विप्रतिपत्तिनिरासार्थं पुनराह । पुढवी चित्तमंतमरकाया । पृथिवी चित्तं च जीवलक्षणं तदस्या अस्तीति चित्तवती सजीवा इत्यर्थः । पाठान्तरं वा पुढवीचित्तमत्तमरकाया । श्रत्र मात्रशब्दः स्तोकवाची । यथासर्षप त्रिनागमात्रम् । पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः । तथाच प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमे - केन्द्रियाणां तदधिकं द्वीन्द्रियादीनामिति । आख्याताः सर्वज्ञेन कथिताः । किंवि - शिष्टाः । पृथिवी अनेकजीवा, छानेके जीवा यस्यां सा अनेकजीवा न पुनरेकजी - वा । यथा वैदिकानां पृथ्वी देवता इत्येवमादिवचनप्रामाण्यादिति । तथा अनेकजीवापि कैश्चित् एकभूतात्मापेक्षया मन्यते । यदाहुरेके ॥ एक एव हि भूतात्मा नूते भूते व्यवस्थितः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ अत एवाह । किंभूता पृथिवी । पुढोसत्ता | पृथक् सत्त्वाः प्राणिनो यस्यां सा पृथक्सत्वा । अङ्गुलस्य असंख्येयजागमात्रावगाहनैरनकैः पार्थिवजीवैः समाश्रितेतिभावः । या । यद्येवं जीव पिएरूपा पृथिवी तदा तस्यामुञ्च्चारादिकरणेन नियमतस्तन्मरणात् श्रहिंसाया अनुत्पत्तिः स्यात् । तथा च सति साधुधर्मस्य असंभवः स्यात् । अतोऽत्राह । - न्यत्र शस्त्रपरिणतायाः शस्त्रपरिणतां पृथिवीं विहाय अन्या पृथिवी चित्तवती आख्याता इत्यर्थः । पृथिव्याः शस्त्रं त्रिधा । स्वकाय शस्त्रं ( २ ) परकायशस्त्रं ( 2 ) तडुजय शस्त्रं च (३) । तत्र स्वकीयशस्त्रं यथा कृष्णमृद् नीलादिमृदः शस्त्रम् । एवं गन्धरसस्पर्शसंनेदेऽपि शस्त्रयोजना कार्या (१) । परकायशस्त्रं यथा तेजःप्रभृतीनां पृथिवी अथवा पृथिव्या अतेजःप्रभृतयः (२) । तडुजयं यथा कृष्णमृद् उदकस्य पांडुमृदश्च परस्परस्पर्शगन्धादिनिः ।
२२
Jain Education International
For Private Personal Use Only
www.jainelibrary.org