________________
दशवेकालिके चतुर्थाध्ययनम् ।
१५३
र्थस्य शब्दो जवति वाचक इति । खरविषाणादिशब्दैर्व्य निचारमाशङ्क्याह । केवलः शुद्धोऽन्यपदासंसृष्टः । खरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः । एतद्विवरणायैवाह जाष्यकारः ॥ वित्ति निविगप्पो, जीवो नियमाज सद्दर्ज सिद्धी ॥ कम्दा सुरूपयत्ता, घडखरसिंगाणुमाणा ॥ २५२॥ व्याख्या ॥ श्रस्तीति निर्विकल्पो जीवः । निर्विकल्प इति निःसंदिग्धः । नियमान्नियमेनैव प्रतिपत्रपेक्षया शब्दतः सिद्धिः वाचकाद्वाच्यप्रतीतेः । एतदेव प्रश्नद्वारेणाह । कस्मात् कुत एतदेव मित्याह । शुद्धपदत्वात् केवलपदत्वाजीवशब्दस्य घटखरशृङ्गानुमानादनुमानशब्दो दृष्टान्तवचनः । घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः । प्रयोगस्तु मुख्येनार्थेनार्थवान् जीवशब्दः शुद्धपदत्वाद्धटशब्दवत् । यस्तु मुख्येनार्थेनार्थवान् न जवति स शुद्धपदमपि न जवति । यथा खरशृङ्गशब्द इति गाथार्थः । परानिप्रायमाशङ्क्य परिहरन्नाह ॥ चोयगसुद्धपयत्ता, सिद्धी जर एव सुससिद्धि अहं पि ॥ तं न जवइ संतेणं, जं सुन्नं सुन्नगेहं व ॥ २५३ ॥ व्याख्या ॥ उक्तवबुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्य सिद्धिरस्माकमपि । शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः । यत्रोत्तरमाह । तन्न जवति यमुक्तं परेण । कुत इत्याह । सता विद्यमानेन पदार्थेन यद्यस्मात्रून्यं शून्यमुच्यते । किंवदित्याह । शून्यहमिव । तथाहि । देवदत्तेन रहितं शून्यगृहमुच्यते । निवृत्तो घटो नष्ट इति । नत्वनयोर्जीवशब्दस्य जीववदवशिष्टं वाच्यमस्तीति गाथार्थः । प्रकारान्तरेणा स्तित्वपक्षमेव समर्थयन्नाह ॥ मिठा जवेन सङ्घवा, जे केई पारलोइया ॥ कत्ता चेवोपनोत्ता य, जइ जीवो न विद्यइ ॥ २५४ ॥ व्याख्या ॥ मिथ्या नवेयुरनृताः स्युः सर्वथा ये केचन पारलौकिका दानादयः । यदि किमित्याह । कर्ता चैव कर्मण उपजोक्ता च तत्फलस्य यदि जीवो न विद्यते । परलोकयायीति गाथार्थः । एतदेवाव्युत्पन्न शिष्यानुग्रहार्थं स्पष्टतरमाह ॥ पाणिदयातव नियमा, बंजं दिका य इंदिय निरोहो ॥ सवं निरवमेयं, जइ जीवो न विद्यई ॥ २५५ ॥ व्याख्या ॥ प्राणिदयातपोनियमाः करुणोपवासहिंसा विरत्यादयः । तथा ब्रह्म ब्रह्मचर्यं दीक्षा च योगलकणा इन्द्रियनिरोधः प्रव्रज्याप्रतिपत्तिरूपः । सर्वं निरर्थकं निष्फलमेतत् । यदि जीवो न परलोकयायीति गाथार्थः । किंच शिष्टाचरितो मार्गः शिष्टैरनुगन्तव्य इति । तन्मार्गख्यापनायाह ॥ लोइया वेश्या चेव, तहा सामाइया विऊ ॥ निच्चो जीवो पिहो देहो, सवे ववaिया ॥ २५६ ॥ व्याख्या | लोके जवा लोके वा विदिता इति लौकिका इतिहासादिकर्तारः । एवं वैदिकाश्चैव त्रैविद्यवृद्धाः तथा सामायिकात्रिपिटकादिसमवृत्तयो विद्वांसः परिणताः । नित्यो जीवो नानित्यः । एवं पृथग् देहावरीरादित्येवं सर्वे व्यवस्थिता नान्यथेति गाथार्थः । एतदेव व्याचष्टे ॥ लोगे -
२०
Jain Education International
For Private Personal Use Only
www.jainelibrary.org