________________
दशवेकालिके चतुर्थाध्ययनम् ।
१५१
प्रयोगार्थः । प्रयोगस्तु सन्नात्मा परिणामित्वात् क्षीरवदिति गतं लेश्याद्वारम् प्राणापानद्वारमाह । उद्दासादित्यचेतनधर्म विलक्षणप्राणापानसभावान्नाजावो जीवः किंतु जाव एवेति । श्रमसङ्गावेन परिस्पन्दोपेत पुरुषवदिति प्रयोगार्थः । प्रयोगस्तु पुनरत्र व्यतिरेकी द्रष्टव्यः । सात्मकं जीवछरीरं प्राणादिमत्त्वात्तु सात्मकं न जवति तत्प्राणादिमदपि न जवति यथाकाशमिति गाथार्थः । उक्तं प्रापापानद्वारमधुना इन्द्रियद्वारमुच्यते ॥ काणेयाणि परिडिगाणि, वासाइवेह करणत्ता ॥ गहवेयगनिद्यर, कम्मस्सन्नो जहाहारो ॥ २४४ ॥ व्याख्या ॥ - काणीन्द्रियाणि एतानीति लोकप्रसिद्धानि देहाश्रयाणि परार्थानि आत्मप्रयोजनानि वास्यादिवदिह करणत्वाल्लोके वास्यादिवदिति प्रयोगार्थः । श्राह । - दानान्येवेन्द्रियाणि तत् किमर्थं नेदोपन्यासः । उच्यते । निर्वृत्त्युपकरणद्वारेण है विध्यख्यापनार्थम् । ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति । प्रयोगस्तु परार्था - श्चक्षुरादयः संघातत्वाष्ठयनासनादिवत् । न चायं विशेषविरुद्धः । कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारमधुना बन्धादिद्वाराण्याह । ग्रहणवेदक निर्जरकः । कर्मणोऽन्यो यथाहार इति । तत्र ग्रहणं कर्मणो बन्धः । वेदनमुदयः । निर्जरा हृयः । यथाहार इत्याहारविषयाणि ग्रहणादीनि न कर्त्रा दिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः । प्रयोगस्तु विद्यमानजोक्तृकमिदं कर्मग्रहणवेदन निर्जरणसङ्गावादाहारवदिति गाथार्थः । उक्तानि बन्धादिद्वाराणि । व्याख्याता च प्रथमा प्रतिकारगाथा । सांप्रतं द्वितीयामाधिकृत्य चित्तादिखरूपव्या चिख्यासयाह ॥ चित्तं तिकाल विसयं, चेयणपच्चरकसन्नमणुसरणं ॥ विषाणणेगनेयं, कालमसंखेयरं धरणा ॥ २४५ ॥ व्याख्या ॥ चित्तं त्रिकालविषयम् उघतोऽतीतानागतवर्तमानयाहि । चे - तनं चेतना सा प्रत्यक्षवर्तमानार्थग्राहिणी । संज्ञानं संज्ञा । सा अनुस्मरणमिदं तदिति ज्ञानम् । विविधं ज्ञानं विज्ञानमनेकभेदमनेकप्रकारमनेकधर्मिणि वस्तुनि तथा तथाध्यवसाय इत्यर्थः । कालमसंख्येयेतरमसंख्येयं संख्येयं वा । धारणा अविच्युतस्मृतिवासनारूपा । तत्र वासनारूपासंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां संख्येयमिति गाथार्थः ॥ वस्स कहबुद्धी, ईहा चेहब अवगमो उ मई ॥ संजावतक्का, गुणपचरका घडो ॥ २४६ ॥ व्याख्या ॥ श्रर्थस्योहबुद्धिः संज्ञिनः पर निरपेक्षार्थ परिछेद इति जावः । ईहा चेष्टा किमयं स्थाणुः किंवा पुरुष इति सदर्थपर्यालोचनरूपा । अर्था वगमस्त्वर्थपरिच्छेदस्तु शिरः कामयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः । संनावणञ्चतक्कसि । प्राकृतशैल्या अर्थसंभावना । एवमेव चायमर्थ उपपद्यत इत्यादिरूपा
I
Jain Education International
For Private Personal Use Only
www.jainelibrary.org