________________
दशवैकालिके चतुर्थाध्ययनम् ।
१४
यापन्ना नवन्ति ज्ञातव्याः । पर्यायापन्ना इति तमेव सूक्ष्मपर्यायमापन्नाः । जावसूक्ष्मा नतु नूतनाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदौ बादराणां पृथिव्यादीनां चशब्दात्सूक्ष्माणां च पर्याप्तकेतरौ ज्ञातव्यौ पर्याप्तकापर्याप्तकाविति गाथार्थः । उ-ः क्ता प्ररूपणा अधुना लक्षणमुच्यते । तथा चाह जाष्यकारः ॥ लरका मियाणि दारं, चिंध देऊ कारणं लिंगं ॥ लकण मिइ जीवस्स उ, खायालाई इमं तं च ॥ २३५ ॥ व्याख्या ॥ लक्षणमिदानीं द्वारमवसर प्राप्तम् । अस्य च प्रतिपत्त्यङ्गतया प्राधान्यात्सामान्यतस्तावत्तत्स्वरूपमेवाह । चिह्नं हेतुश्च कारणं लिङ्गं लक्षणमिति । तत्र चिह्नमुपलक्षणं यथा पताका देवकुलस्य । हेतुर्निमित्तलक्षणं यथा कुम्नकारनैपुण्यं घटसौन्दर्यस्य । कारणमुपादानलक्षणं यथा मृन्मसृणत्वं घटबलीयस्त्वस्य । लिङ्ग कार्यलक्षणं यथा धूमोऽग्नेः । पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्विति कृत्वा जीवस्य पुनरादानादि लक्षणमनेकप्रकार मिदम् । तच्च वक्ष्यमाणमिति गाथार्थः ॥ यायाणे परिजोगे जोगुवगे कसायलेसा य ॥
पा इंदिय, बंधोदय निरा चेव ॥ २३६ ॥ चित्तं चेयणसन्ना, विन्नाणं धारणा य बुद्धी ॥ ईहामईवियक्का, जीवस्स उ लकणा एए ॥ २३७ ॥ दारं ॥ व्याख्या ॥ एतत्प्रतिद्वारगाथाद्वयमस्य व्याख्या | आदानं परिजोगस्तथा योगोपयोगौ । कषायलेश्याश्च । तथानापानौ इन्द्रियाणि बन्धोदय निर्जराश्चैव । तथा चितं चेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा ईहामतिवितर्का जीवस्य तु लक्षणान्येतानि । तुशब्दस्यावधारणार्थत्वाजीवस्यैवेति प्रतिद्वारगाथाद्वयसमासार्थः । व्यासार्थस्तु जाष्यादवसेयस्तच्चेदम् ॥ लरिकद्यइत्ति नद्य, पच्चरिकयरो व जेण जो
वो ॥ तं तस्स लरकणं खलु, धूमुण्हाइ व अग्गिस्स ॥ २३८ ॥ व्याख्या ॥ लक्ष्यत इति ज्ञायते कोऽसावित्याह । प्रत्यक्षोऽदिगोचरापन्न इतरो वा परोक्षः । येनोष्णत्वादिनादिस्तत्तस्य लक्षणं खस्विति । तदेव स्पष्टयति । धूमौष्ण्या दिवदने रिति । स येन प्रत्यको लक्ष्यते । परोक्षो धूमेनेति गाथार्थः । तत्रादानादीनां दृष्टान्तानाह ॥ श्रयगारकूरपरसू, अग्गिसुवन्ने खीरनरवासी ॥ श्राहारो दिहंता, श्रायाणाई जनसंखं ॥ २३७ ॥ व्याख्या ॥ अयस्कारः क्रूरस्तथा परशुरग्निः सुवर्णं क्षीरनरवास्यः । तथा श्राहारो दृष्टान्ता यदानादीनां प्रक्रान्तानां यथासंख्यं प्रतिज्ञाद्युल्लङ्घनेन चैतदनिधानं परोक्षार्थप्रतिपत्तिं प्रति प्रायः प्रधानाङ्गताख्यापनार्थमिति गाथार्थः । सांप्रतं प्रयोगानाह ॥ देहिंदियाइरित्तो, श्राया खलु गनगाहगयगा ॥ संडासा पिंडो, यकारा व विन्ने ॥ २४० ॥ व्याख्या ॥ देहेन्द्रियाति - रिक्त आत्मा । खलुशब्दो विशेषणार्थः । कथं चिन्न सर्वथातिरिक्त एव तदसंवेद
Jain Education International
For Private & Personal Use Only
·
www.jainelibrary.org