________________
दशवैकालिके तृतीयाध्ययनम्। .
१२५ तलक्षणाः कथाः। प्रज्ञापयतीति प्रज्ञापकः। प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपकम्। नतु घरभ्रमणकल्पंयतोन किंचिदवगम्यत इत्यर्थः। समाश्रित्य प्राप्य। किमित्याह ।अकथा वदयमाणलक्षणा कथा चोक्तस्वरूपा विकथा चोक्तस्वरूपैव नवति पुरुषान्तरं श्रोतृलक्षणं प्राप्यासाद्य साध्वसाध्वाशयवैचित्र्यात्सम्यकश्रुतादिवत् । अन्ये तुप्रझापकं मूलकर्तारं प्ररूपकं तत्कृतस्याख्यातार मिति व्याचदते। नचैतदतिशोजनं परमवयपरूवगे समासद्यत्ति पाठप्रसङ्गादिति गाथार्थः । इदानीमकथालक्षणमाह ॥ मिछत्तं वेयंतो, जं अन्नाणी कहं परिकहेश ॥ लिंगबो व गिही वा, सा कहा देसिया समए ॥ १५ ॥ व्याख्या ॥ मिथ्यात्व मिति मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां कां चिदशानी कथां कथयति । अझानित्वं चास्य मिथ्यादृष्टित्वादेव । यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याझानित्वाव्य निचारादिति चेन्न । प्रदेशानुनववेदकेन सम्यग्दृष्टिना व्यभिचारादिति। किंविशिष्टोऽसावित्याह। लिङ्गस्थो वा प्रव्यप्रत्रजितोऽङ्गारमर्दकादिः । गृही वा यः कश्चिदितर एव।सा एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिबन्धना कथा देशिता समये । ततः प्रतिविशिष्टकथाफलानावादिति गाथार्थः। अत्रैव प्रक्रमे कथामाह ॥ तवसंजमगुणधारी, जं चरणरया कहिति सनावं ॥ सबजगजीव हियं, सा उ कहा देसिया समए ॥ १६ ॥ व्याख्या ॥ तपःसंयमगुणान् धारयन्ति तडीलाश्चेति तपःसंयमगुणधारिणः यां कांचन चरणरताश्चरणप्रतिबझा नत्वन्यत्र निदानादिना कथयन्ति सनावं परमार्थम् । किविशिष्टमित्याह । सर्वजगजीवहितं नतु व्यवहारतः कतिपयसत्वहितमित्यर्थः । तुशब्दस्यावधारणार्थत्वात्सव कथा निश्चयतो देशिता समये निर्जराख्यस्वफलसाधनात्कर्तृणां श्रोतणामपि चेतःकुशलपरिणामनिवन्धना कथैव नोचेनाज्येति गाथार्थः । इहैव विकथामाह ॥ जो संजर्ड पमत्तो, रागदोसवसग परिकहेश ॥ सा ज विकहा पवयणे, पसत्ता धीरपुरिसेहिं ॥ १७ ॥ व्याख्या ॥ यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशगः सन्न तु मध्यस्थः परिकथयति किंचित् । सा तु विकथा प्रवचने सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैः तीर्थकरादिनिः। तथाविधपरिणामनिबन्धनत्वात् कर्तृश्रोत्रोरिति।श्रोतृपरिणामनेदे तु तं प्रति कथान्तरमेवैवं सर्वत्र नावना कार्येति गाथार्थः। सांप्रतं श्रमणेन यथाविधा न कार्या तथाविधामाह । सिंगाररसुत्तश्या, मोहकुवियफुफुगा हसहसिंति ॥ जं सुणमाणस्स कहं, समणेण ण सा कहेयवा ॥ १७ ॥ व्याख्या ॥ शृङ्गाररसेन मन्मथदीपकेन उत्तेजिता अधिकं दीपिता केत्याह । मोह एव चारित्रमोहनीयकर्मोदयसमुबात्मपरिणामरूपः कुपित'फुकाघटितकुकूला हसह सिंतित्ति जाज्वल्यमाना जायत इति वाक्यशेषः । यां शृण्वतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org