________________
१२६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. कथां मोहोदयो जायत इत्यर्थः । श्रमणेन साधुना न सा कथयितव्या । अकुशलनिबन्धनत्वादिति गाथार्थः। यत्प्रकारा कथनीया तत्प्रकारामाह ॥ समणेण कहेयवा, तवनियमकहा विरागसंजुत्ता ॥ जं सोऊण मणूसो, वच्चर संवेगनिवेयं ॥ १५ ॥ व्याख्या ॥ श्रमणेन कथयितव्या। किंविशिष्टेत्याह । तपोनियमकथा । अनशनादिपञ्चाश्रव विरमणादिरूपा । सापि विरागसंयुक्ता न निदानादिना रागादिसंगता । अत एवाह । यां कथां श्रुत्वा मनुष्यः श्रोता ब्रजति गछति । संवेयणिव्वेदं ति।संवेगं निर्वेद चेति गाथार्थः । कथाकथन विधिमाह ॥ अबमहंती वि कहा, अपरि किलेसबहुला कहेयवा ॥ हंदि महयाचडगर-तणेण अखं कहा हण ॥ २० ॥ व्याख्या॥ महार्थापि कथा अपरिक्लेशबहुला कथयितव्या । नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः। किमित्येव मित्यत आह । हंदीत्युपदर्शने। महता चमकरत्वेन।अतिप्रपञ्चकथनेनेत्यर्थः। किमित्याह । अर्थ कथा हन्ति नावार्थं नाशयतीति गाथार्थः । विधिशेषमाद ॥ खेत्तं कालं पुरिसं, सामवं चप्पणो वियाणेत्ता ॥ समणेण उ अणवद्या, पगयंमि कहा कहेयवा ॥ २१॥ तश्यतयणणिद्युत्ती संमत्ता ॥ व्याख्या ॥ क्षेत्रं जौमादि नावितं कालं क्षीयमाणादिलक्षणं पुरुषं पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः। श्रमणेन त्वनवद्या पापानुवन्धरहिता कथा कथयितव्या नान्येति गाथार्थः। उक्ता कथा तदनिधानागतो नामनिष्पन्नो निक्षेपः। सांप्रतं सूत्रालापकनिष्पनस्यावसर इत्यादि चर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । तच्चेदम् । संजमे इत्यादि । अस्य व्याख्या । इह संहितादिक्रमः तुमः। नावार्थस्त्वयम् । संयमे सुमपुष्पिकाव्यावर्णितस्वरूपे शोजनेन प्रकारेणागमनीत्या स्थित श्रात्मा येषां ते सुस्थितात्मानस्तेषाम् । त एव विशेष्यन्ते । विविधमनेकैः प्रकारैः प्रकर्षेण नावसारं मुक्ताः परित्यक्ता बाह्यान्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषाम् । त एव विशेष्यन्ते त्रायन्ते आत्मानं परमुनयं चेति त्रातारः। आत्मानं प्रत्येकबुझाापरं तीर्थकराः स्वतस्तीर्णत्वाकुनय स्थविरा इति। तेषामिदं वक्ष्यमाणलक्षणमनाचरितमकरूपम् । केषामित्याह। निग्रन्थानां साधूनामित्यनिधानमेतत् । महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः । अथवा महान्तमेषितुं शीलं येषां ते महैषिणस्तेषाम् । इह च पूर्वपूर्वनाव एवोत्तरोत्तरजावो नियतो हेतुहेतुमन्नावेन वेदितव्यः। यत एव संयमे सुस्थितात्मानोऽतएव विषमुक्ताः । संयमसुस्थितात्मनिबन्धनत्वाधिप्रमुक्तेः । एवं शेषेष्वपि नावनीयम् । श्रन्ये तु पश्चानुपूर्त्या हेतुहेतुमन्नावमिदं वर्णयन्ति । यत एव महर्षयोऽतएव निग्रन्थाः । एवं शेषेष्वपि अष्टव्यमिति सूत्रार्थः । सांप्रत यदनाचरितं तदाह । सूत्रम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org