________________
दशवैकालिके तृतीयाध्ययनम् ।
१११
1
आत्मा येषां तेषाम् । किं० । विप्रमुक्तानां विविधमनेकप्रकारैः प्रकर्षेण संसारान्मुक्तानाम् । पुनः किं० । तायिनाम् । त्रायन्ते आत्मानं परमुजयं च ये ते त्रातारस्तेषाम् । आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः, उजयं स्थविरा:, तेषामिदं वक्ष्यमाणलक्षणमनाचीर्णमनाचरितमकटपम् । केषामित्याह । निर्ग्रन्थानां साधूनाम् । किं विशिष्टानाम् । महर्षीणां महतां यतीनाम् ॥ १ ॥
(टीका) व्याख्यातं श्रामण्यपूर्व काध्ययनमिदानीं क्षुल्लकाचारकथाख्यमारभ्यते । श्रस्य चायम निसंबन्धः । इहानन्तराध्ययने धर्मान्युपगमे सति मानूद जिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता जवितव्यमित्युक्तम् । इह तु सा धृतिराचारे कार्या नत्वनाचारे । अयमेवात्मसंयमोपाय इत्येतदुच्यते । उक्तं च ॥ तस्यात्मा संयतो यो हि, सदाचारे रतः सदा ॥ स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥ इत्यनेनानिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत् । नाम निष्पन्ने निक्षेपे कुल्लकाचारकथेति नाम । तत्र क्षुल्लकस्येति निक्षेपः कार्यः । श्राचारस्य कथायाश्च महदपेक्षया च क्षुल्लक मित्यतश्चित्रन्यायप्रदर्शनार्थमपेक्षणीयमेव । महदनिधित्सुराह । नामं ठवणा दविए, खेत्ते काले पहाणावे ॥ एए सि महंताणं, पडिवरके खुरुया होंति ॥ १८४॥ व्याख्या ॥ नाममहन्महदिति नाम | स्थापनामहन्मह० । द्रव्यमहान चित्तमहास्कन्दः । क्षेत्रमहल्लोकालोकाकाशम् । कालमहानतीता दिनेदः संपूर्णः कालः । प्रधानमह त्रिविधम् । स चित्ताचित्तमिश्रभेदात् । सचित्तं त्रिविधम् । द्विपदचतुष्पदापदभेदात् । तत्र द्विपदानां तीर्थंकरः प्रधानः । चतुष्पदानां हस्ती । अपदानां पनसः । अचित्तानां वैमूर्यरत्नम् । मिश्राणां तीर्थकर एव वैडूर्यादिविभूषितः प्रधानः । इत्यत एव चैतेषां महत्त्वमिति प्रतीत्य महदादिकम् । तद्यथा यामलकं प्रतीत्य बिल्वं महत्, बिल्वं प्रतीत्य कपिल मित्यादि । जावमह त्रिविधं प्राधान्यतः कालत श्राश्रयतश्चेति । प्राधान्यतः क्षायिको महान्मुक्तिहेतुत्वेन तस्यैव प्रधानत्वात् । कालतः पारिणामिकः । जीवत्वाजीवत्वपरिणामस्यानाद्यपर्यवसितत्वान्न कदाचिजीवा जीवतया परिणमन्ते जीवा - श्च जीवतयेति । श्रयतस्त्वौद यिकः । प्रभूतसंसा रिसत्त्वाश्रयत्वात्संसारिणामेवासौ विद्यत इति एतेषामनन्तरोदितानां महतां प्रतिपदे कुल्लकानि भवन्ति । श्रनिधेयवलिङ्गवचनानि जवन्तीति न्यायात् यथार्थं कुल्लक लिङ्गवचन मिति । तत्र नाम - स्थापने कुले । द्रव्यक्षलकः परमाणुः । द्रव्यं चासौ लकश्चेति । क्षेत्रक काशप्रदेशः । कालल्लकः समयः । प्रधानकुलकं त्रिविधम् । सचित्ताचित्तमिश्रनेदात् । सचित्तं त्रिविधम् । द्विपदचतुष्पदापदजेदात् । द्विपदेषु कुल्लकाः प्रधानाश्चानु
I
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org