________________
हरिवंशपुराणं।
४८१
सप्तत्रिंशः सर्गः। सुरत्नसिंहासनदर्शनेन स स्फुरन्मणिद्योतितिरीटपाणिभिः ।
परीतमारोक्ष्यति देवदानवैः पराय॑सिंहासनमूर्ध्वशासनः ॥ ३८ ॥ विमाननाथोऽमरनाथकोटिभिः प्रपूजितांघ्रिः सुविमानदर्शनात् ।
विमानसाधिः महतो महोदयो विमानमुख्यादवतीर्णवानिह ॥ ३९ ॥ भवेत्तु भेत्ता भवपंजरस्य स फणींद्रनियद्भवनावलोकनात् ।।
सुतोन्वितश्चापि मतिश्रुतावधिप्रधाननेत्रत्रितयेन जायते ॥ ४० ॥ बहुप्रकारस्फुरदंशुरंजितं झुरत्नराशिप्रविलोकनात्सुतं ।
प्रतीहि नानागुणरत्नराशिना श्रयिष्यमाणं शरणाश्रिताश्रयं ॥ ४१ ॥ शिखावलीलीढनभस्तलोज्वलात्प्रदक्षिणावर्तविधूमवन्हितः ।
निरीक्षिताद्ध्यानमहाहुताशनः स कर्मकक्षं सकलं प्रधक्ष्यति ॥ ४२ ॥ किरीटसत्कुंडलपूर्वभूषणाः प्रभावतस्तस्य मदीयशासनं । ___ अलंकरिष्यत्यनुकूलसेवकाः सुरेश्वराः प्राकृतपार्थिवा इव ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org