________________
हरिवंशपुराणं ।
४८०
Jain Education International
निरंतरं लोकमलोकमप्यसावनं तदृग्ज्ञानदृशा तनिष्यति ॥ ३१ ॥ स चंद्रसंदर्शनतः सुदर्शने महोदया चंद्रिकया सुदर्शनः ।
जिनेंद्रचंद्रो जगतां तमोंतकृनिरंतराह्लादकरो भविष्यति ॥ ३२ ॥ समस्ततेजस्विजनस्य भूयसा निजेन तेजांसि विजित्य तेजसा ।
जगति तेजोनिधिरर्कदर्शनात्करिष्यति ध्वस्ततमांसि ते सुतः ॥ ३३ ॥ सुखं कृतक्रीडझपद्वयेक्षणादवाप्य सौख्यं विषयोपयोगजं ।
अनंतमंते सुखमाप्स्यति ध्रुवं शिवालयेऽसौ शिवदेवि ! नंदनः ॥ ३४ ॥ सुपूर्णकुंभद्वयदर्शनात्ततो गृहं प्रपूर्णं निधिभिर्भविष्यति ।
जगन्मुदापूर्णमनोरथस्य हि प्रभावतस्तस्य शरीरजस्य ते ॥ ३५ ॥ विचित्रपुष्पांबुज खंड दर्शनादशेषसल्लक्षणलक्षितः सुतः । विदाहितृष्णातृषितान्वितृष्णधीरितैव निर्वाणमयान् करिष्यति ॥ ३६ ॥ महासमुद्रस्य महामृतात्मनः समुद्रगंभीरमतिर्विलोकनात | श्रुतांबुधिनीतिमहासरिद्धितं स पाययिष्यत्युपदेशकृज्जनान् ॥ ३७ ॥
सप्तत्रिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org