SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ४७९ हरिवंशपुराणं। सप्तत्रिंशः सर्गः । प्रिये यदुत्पत्तिमियं वदत्यहर्दिनं पतंती वसुवृष्टिरद्भुता । __ सुदिक्कुमार्यो भवतीमुपासते यदर्थमास्थात्स हि सोद्य तीर्थकृत् ॥ २५ ॥ किमत्र ते स्वप्नफलं निगद्यते वरोरु यत्तीर्थकरप्रसूरसि । । प्रपत्स्यते सोऽपि महान् महीयसां जगत्त्रये यत्तदवैहि कथ्यते ॥ २६ ॥ अनेकपोऽनेकपलोकनादलं विलंबितानेकपविभ्रमो गतः । जगत्त्रये ते तनयस्तनूदरि प्रकाममेकाधिपतित्वमेष्यति ॥ २७ ॥ अलंकरिष्यत्यकलंकधीः कुलं जगत्त्रयं चात्र जगद्गुरुर्गुणैः।। गवां कुलं वा वृषभो वृषेक्षणावृषेक्षणः स्कंधधृतिः सुतस्तव ॥ २८ ॥ महावलेपानखिलाननेकपान्करिष्यते सिंहवदुज्झितोन्मदान् । अनंतवीर्यः स हि सिंहदर्शनात् महैकधीरोंऽततपोवनेश्वरः ॥ २९ ॥ यदैक्षि लक्ष्मीरभिषेकिणी ततः प्रसूतमात्रस्य गिरींद्रमस्तके। सुरासुरेंद्रैर्दयितेऽभिषिच्यते गिरिस्थिरः क्षीरसमुद्रवारिभिः ॥३०॥ स्रजोः सुगंधायतयोः प्रदर्शनाज्जगत्रयव्यापियशाः सुगंधिभाक् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy