________________
हरिवंशपुराणं।
४७८
सप्तत्रिंशः सर्गः। फणामणिद्योतविभिन्नभूतमः फणींद्रकन्याकलगीतसंकुलं ।
ज्वलन्मणि प्रैक्षि भुवः समुद्गतं फणींद्रभास्वद्भवनं महत्तया ॥ १९ ॥ सपद्मरागोज्ज्वलवज्रपूर्वकं प्रकृष्टमाणिक्यमहाशिखाकुलं ।
___ व्यलोकतेंद्रायुधरुद्धदिङ्मुखं सुरत्नराशिं गगनस्पृशं शुभा ॥ २० ॥ शिखाकरालं शिखिनं मुखं दिशां प्रकाशयंत शुचि रोचिषां निशि ।
ददर्श संदर्शितसौम्यविग्रहं सविग्रहा श्रीरिव तोषपोषिणी ॥ २१ ॥ अनंतरं स्वप्नगणस्य कंपयन् सुरासनान्याविशदंबिकाननं ।
सितेभरूपो भगवान् दिवच्युतः प्रकाशयन् कार्तिक शुक्लषष्ठिकं ।। २२ ॥ पुनः पुनर्जागरणेन सांतराननंतरायानिति तान्विलोक्य सा ।
विनिद्रनेत्रा जयगीतमंगलैरनालसा तल्पतलं ततोऽत्यजत् ॥ २३ ॥ प्रभातकाले कृतमंगलांगिका कुतूहलादेत्य पति प्रणामिनी।।
क्रमेण तान् स्वप्नवरान्न्यवेदयत् प्रसन्नधीरित्यगदीत्स तत्फलं ॥ २४ ॥ १-भुवोऽन्धकारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org