________________
हरिवंशपुराणं ।
४७६
तया तमालासितभृंगझंकृतिरलोकि कैलाश इवाचलाचलः ॥ ६ ॥ मुशृंगमुत्तुंगककुत्स्वनत्खुरं प्रलंबसास्नायतबालधक्षणं ।
सितं धनोद्रे कितधीरमंबिका - महोक्षमाक्षिप्रियमैक्षत क्षणं ॥ ७ ॥ विलंबितक्ष्माभृतमग्रशैलगं मृगांक लेखांकुशदंष्ट्रमायतं ।
दिगंत विश्रांत निनादमाविशत् - शरत्पयोदाभमिभारिमैक्षत ॥ ८ ॥ महेभकुंभाभकुचामिभैः शुभैः कृताभिषेकां कुटगंधवारिभिः ।
भोजपु ददर्श सा विकासिपद्मासनवर्तिनीं श्रियं ॥ ९ ॥ स्रजौ प्रलंबे विमलांबरे वरे रजोरुणीभूतषडंत्रिमंडले |
भुजे निजे वा कुसुमातिकोमले सजागरे वावहिता व्यलोकत ॥ १० ॥ निरस्य नैशं निशितैरुपागतं करैस्तमोजालमलं निशाकरं ।
निरभ्र व्योनि प्रपश्यतिस्म सा स्थिराट्टहासं रजनीवरस्त्रियाः ॥ ११ ॥ दिनं दिनं दृश्यमुखं दिवाकरं सुसाध्य सिंदूरपरागपिंजरं ।
१ चलाचलः इति ख ग पुस्तकयोः । २ करोद्धृताम्भोजपुटां इति ख पुस्तके |
Jain Education International
सप्तत्रिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org