________________
हरिवंशपुराणं ।
४७५
सप्तत्रिंशः सर्गः ।
अथात्र यद्वृत्तमतीव पावनं पुरैव तु श्रेणिक लोकहर्षणं । दशार्हमुख्यस्य सुसौर्यवासिनः शृणु प्रवक्ष्येऽवहितस्तदद्भुतं ॥ १ ॥ जिनस्य नेमेस्त्रिदिवावतारतः पुरैव षण्मासपुरस्सराः सुरैः ।
प्रवर्तिता तज्जननावधिर्गृहे हिरण्यवृष्टिः पुरुहूतशासनात् ॥ २ ॥ तया पतंत्या वसुधारयार्धभाक् त्रिकोटिसंख्यापरिमाणया जगत् ।
तर्पितं प्रत्यहमर्थिं सर्वतः क पात्रभेदोऽस्ति धनप्रवर्षिणां ॥ ३ ॥ दिशां मुखेभ्यः समितास्तदाश्रिताः दिशां कुमार्यः परिचर्यया शिवां ।
दिशां च चक्रस्य जयं जगत्त्रये दिशत्यपत्येन जिनेन जिष्णुना ॥ ४ ॥ समेत्य पत्यातिशयप्रदर्शनादतीव संहृष्टमतिः शिवान्यदा ।
ददर्श सा स्वम इमानिशांतरे प्रशंसितान् स्वप्नवरान् हि षोडश ॥ ५ ॥ समंततोऽश्रांत मदबुनिर्झरः प्रतिध्वनिव्याप्तदिगिंद्रपो द्विपः ।
Jain Education International
सप्तत्रिंशः सगेः । सप्तत्रिंश
For Private & Personal Use Only
www.jainelibrary.org