________________
हरिवंशपुराणं ।
४७३
षट्त्रिंशः सर्गः । अथ सकलुशभावा सा जरासंधराजं जलनिधिमिव वेला व्याकुला क्षोभयंती । अतिवितततमाला नीलकेशाप्यरोदीद्यदुकुलकृतदोष कंसयोषिद्वदंती ।। ६५॥ त्वयि सकलधरित्री शासति ध्वस्तनाथा कथमहमुपयाता तात वैधव्यदुःखं । इदमपि खलु सोढं वैरनिर्यातनाथ मदमुदितयदूनां रक्तपंकैः शिरोभिः ॥ ६६ ॥ दुहितुरिति विलापप्रायमाकर्ण्य वाक्यं नरपतिरुदवोचन्मुंच बालेऽतिशोकं । जगति हि भवितव्यं भाविनो दैवयोगादगणितपरवीर्य देवमत्र प्रधानं ॥ ६७॥ पशुरपि निरपायं निगमोपायमार्ग विमृशति वधशंकः क्षेत्रमादौ विविक्षुः। स्फुटमिदमपि वृत्तं विस्मृतं मर्तुकामैस्तव पतिमतिमत्तैर्यादवैरियद्भिः ।। ६८॥ तव पदशरणाशाकंटका यद्यपि स्युः सहबलकुलशाखास्ते तथाप्याशु वत्से । श्रुतिपथमतिमत्ताः संति मत्क्रोधवर्षद्दवदहनशिखाभिर्भस्मिता ध्वस्तसंज्ञाः ॥ ६९ ॥ प्रियवचनपयोभिर्देहजाक्रोधवह्नि प्रततिमुपशमय्य क्षुब्धकोपानलः सः । यवननिधनकालं कालकल्पं तनूजं यदुजनिधनहेतोरादिदेशाशु राजा ।। ७० ॥ चलजलधिसमानेनाभ्यमित्रं बलेन द्विपचतुरतुरंगस्पंदनाद्येन गत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org