________________
हरिवंशपुराणं ।
खगधनपतिस्रष्टा रत्नशैले मयि द्राक् निपततु वसुधारा सत्यभामाभिधाना || ५८ ॥ प्रतिविहितसुपूजः खेचरेंद्रस्य दूतः प्रमुदितमतिरित्वा स्वास्पदं स्वामिनेऽसौ । गुणनुतपूर्व सर्वकार्यस्य सिद्धिं सममणदिति तेषां तोषणे सप्रियाय ।। ५९ ।।
४७२
Jain Education International
पद्रत्रिंशः सर्गः ।
बलदेव भ्रातरौ भ्राजमानौं प्रतिहतपरतेजोरूपकांती विदित्वा । निजवचनहरास्यात्खेचरेंद्रः सुकेतुः खचरप - रतिमालचा गतौ कन्यकाभ्यां ।। ६० ।। रतिमिव रतिमालो रूपतो रेवतीं स्वां दुहितरमतिकांतां देहजां ज्यायसेऽदात् । अतिमुदितसुकेतुः सत्यभामां प्रभायाः स्वयमुपपदवत्या गर्भजां केशवाय ।। ६१ । कुचकलशकलत्रोदारभारातिखिन्नाः शिथिलवसनकांचीकेशपासोत्तरीयाः । ननृतुरिह विवाहे नूपुरारावरम्याः क्षितिचरखचराणां योषितः शोचिषाः ॥ ६२ ॥ प्रथम नववधूक नीलपीतांबरौ तौ विविधमणिविभूषाज्योतिरुद्भासितांगौ । यदुनृपतिपरीतौ वीक्ष्य पुत्रावतोषीद्यदुयुवतिसमग्रा रोहिणी देवकी च ।। ६३ ।। प्रथममदनरंगे शार्ङ्गिणः सत्यभामा हृदयमहरदिष्टा रेवती शीरपाणेः । गुणितगुणकलानां सुप्रयोगौ तयोस्ताबुचितकरणकाले न स्खलंति प्रगल्भाः ॥ ६४ ॥
For Private & Personal Use Only
www.jainelibrary.org