________________
हरिवंशपुराणं।
षटत्रिंशः सर्गः। स्वजननिजवधूनां क्रंदनाद्यैः सभावे श्रितवति लघु कंसेप्यंगसंस्कारमंत्यं । यदुषु कुपितचित्ताः प्राप्य जीवद्यशायां स्वकपितुरुपकंठे वाष्पसंरुद्धकंठा ॥ ५२ ।। अथ गगनसमुद्रे मोदरंगत्तरंगे त्वरितगतिरनूनामुद्वहन्मीनलीलां । खचरनृपतिदूतोऽलोकि लोकैः समस्तैः स्फुरितमणिविभूषो माथुरैरुन्मुखाजैः ॥ ५३ ॥ तनुविशददुकूलश्चंदनार्दीकृतांगः स्फुट इव कलहंसो मानसस्थानसेवी । सुरसरितमिवाप्तो माथुरी सोऽथ रथ्यां दिशि दिशि धृतशोभा संचरद्राजहंसैः ॥ ५४ ॥ परिषदमथ दत्तद्वारपालप्रवेशो यदुभिरवहितात्मा भूषितां संप्रविश्य । कृतविनतिनिषण्णो विष्णुमूचेऽरिजिष्णुं प्रभुमवसरवेदी यादवानां समक्षं ॥ ५५ ॥ शृणु विनुतमराजा राजताद्रौ सुकेतुर्नमिविनमिकुलश्रीवैजयंतीसुकेतुः । अधिवसति रथं यो नूपुरं चक्रवालं पुरमिह नयदक्षो दक्षिणश्रेण्यधिष्ठं ॥ ५६ ॥ जलजशयनचापैस्त्वां परीक्ष्यामुनाहं तव निकटमिहाशु प्रेषितः प्रेमपूर्व ।। भज वरदवृतस्त्वं सत्यभामावरत्वं खचरभुवनभूत्यै सर्वकल्याणमूलं ।। ५७ ॥ सकलयदुमनोज्ञं दूतवाक्यं निशम्य प्रतिवचनमुपेंद्रोऽदादिति प्रीतचित्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org