________________
हरिवंशपुराणं।
४७०
षत्रिंशः सर्गः। विहितपरुषपादाकर्षणस्तं शिलायां तदुचितमिति मत्वा स्फाल्य हत्वा जहास ॥ ४५ ॥ क्षुभितमभिपतंतं कंससैन्यं च रामः कुटिलभृकुटिमंचस्तंभमुत्पाद्य कोपात् । कुलिशसदृशघातैः सर्वतो गर्वदत्तैरकृत कृतविरावं कांदिशीकं क्षणेन ॥ ४६॥ यदुषु विषमदृष्टिष्वेककालं बलै स्वैश्वलितजलधिनादैरुत्थितेषूद्धतेषु । क्षुभितमपि समस्तं कंसकार्ये नियुक्तं व्यनशदवशमत्तं तज्जरासंधसैन्यं ॥ ४ ॥ रथमथ चतुरस्रं तावनावृष्टियुक्तौ सपदि समभिरुढौ मल्लनेपथ्ययुक्तौ । सदनमगमतां तत्पैतृकं यादवौधैर्जलधिविजयपूर्वैः पूर्णमुर्वीभृदीशैः ॥ ४८ ॥ क्रमयुतमवनत्या पूजयित्वा दशाहप्रभृतिगुरुजनान् तौ तत्र दत्ताशिषौ तैः । चिरविरहजमंतस्तापमस्तं सयोगप्रथमसलिलधारासंगतौ निन्यतुस्तं ॥ ४९ ॥ वसुनिभवसुदेवो देवकी चात्मजस्य प्रशमितरिपुवढेवीक्ष्य विश्रब्धमास्यं । सुखमतुलमगातामेकनासा च कन्या भुवि सुतसहजानां संप्रयोगः सुखाय ॥ ५० ॥ गतनिगलकलंकः कंसशंकाविमुक्तश्विरविरहकृशांगं राज्यलक्ष्मीकलत्रं । यदुनिवहनियोगादुग्रसेनस्तदानीमभजत मथुरायां कंसमाथिप्रदचं ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org