________________
'४६९
हरिवंशपुराणं।
षत्रिंशः सर्गः । बहुजनपदराजप्राज्यलोकावलोके क्षुभितसकलमल्लास्फोटवल्गाभिरामे । क्रमसहितमिहान्ये तावदादेशभाजो वनमहिपविदृप्ता मल्लयुद्धं प्रचक्रुः ॥ ३९ ॥ अथ गिरिगुरुभित्तिव्यूढवक्षोविभाग-स्फुटदृढभुजयंत्रोत्पीडितो दृप्तमल्लं ।। हरिमभि खलकंसो युक्तचाणूरमल्लं विषमितविषदृष्ट्या पृष्ठतो मुष्टिकं च ॥४०॥ खरनखरकठोरौ मुष्टिबंधौ विधाय प्रकटितपदसिंहाकारसंस्थानभेदौ । स्थिरचरणनिवेशौ शौरिचाणूरमल्लावनिभृतमभिलग्नौ मुष्टिसंघहयुद्धे ॥ ४१ ॥ कुलिशकठिनमुष्टिं मुष्टिकं पृष्ठतस्तं समपतितसकामं राममल्लः सलील । अलमलमिह तावत्तिष्ठ तिष्ठति साशीः शिरसि करतलेनाक्रम्य चक्रे गतासु ॥ ४२ ॥ हरिरपि हरिशक्तिः शक्तचाणूरकं तं द्विगुणितमुरसि स्वे हारिहुंकारगर्भः । व्यतनुतभुजयंत्राकांतनीरंध्रनिर्यद्भहलरुधिरधारोद्गारमुद्गीर्णजीवं ॥ ४३ ॥ दशशतहरिहस्तिप्रोद्वलो साधिषूभावितिहठहतमल्लौ वीक्ष्य तौ शीरिकृष्णौ । प्रचलितवति कसे शालनिस्त्रिंशहस्ते व्यचलदखिलरंगांभोधिरुत्तुंगनादः ॥ ४४ ॥ अभिपतदरिहस्तात्खइगमाक्षिप्य कोशेष्वतिदृढमतिगृह्याहत्य भूमौ सरोषं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org