________________
हरिवंशपुराणं ।
४६८
T: 1
सललितमभितस्थौ चंपकं शीरपाणिः फणिरिपुरपि नागं तत्र पादाभराख्यं । अभवदभिनवं तद्विस्मयापादिपुंसां नरवरकरिमल्लद्वंद्वयोर्द्वद्वयुद्धं ॥ ३३ ॥ दहति गाढा क्रांति चोत्पाटयंतौ कुटिलितकररुद्धादंतिदंतानभातां । पृथुभुजबललीलोत्पाद्यमानारवाद्ये क्षितिभृदुरगचेष्टप्रौढवंशांकुरान्वा ॥ ३४ ॥ अदयमथसमूलोन्मूलितोल्लासिताभास्वरदने परिघातैर्घोरनिर्घोष घोषैः विरसविरटिभौ तौ निहत्य प्रविष्टौ पुरमुरुववेला क्ष्वेडिता स्फोटगोपैः ॥ ३५ ॥ कमलकिसलयोद्यत्तोरणद्वारशोभां नृपजनपदशुंभच्चक्रवालालयालिं । भुजशिखर निघृष्टज्येष्टमल्लांसकूटौ विशदमविशतां तौ तां महारंगभूमिं ॥ ३६ ॥ स्वचरणभुजदंडाकुंचिताकारशोभान्यभिनय दृढदृष्टिक्षेप रम्याणि रेजुः । चलितचलनवस्त्रप्रांतकां तानि रंगे हरिहलधर हेलावल्गितास्फोटितानि ॥ ३७ ॥ रिपुरयमिह कंसोऽयं जरासंधलोकः सलिलधिविजयाद्यास्ते दशामी सपुत्राः । सहलसहरिचक्रालोकिनो लांगलीत्थं प्रतिपुरुषमशेषं संज्ञयादर्शयत्तान् ॥ ३८ ॥ १' वदन' इति क पुस्तके । २ समुद्रविजय ।
Jain Education International
षट्त्रिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org