________________
हरिवंशपुराणं ।
४६४
निजभुजबलशाली हेलयैवावगाह्य हृदमपि कुपितोत्थं कालियाहिं महोग्रं । फणिमणिकिरणौघोद्गीर्णवह्निस्फुलिंगव्यतिकरमतिकृष्णं मंक्षु कृष्णो ममर्द ॥ ७ ॥ तरुहविटपाग्रव्यग्र गोप प्रणाद स्फुटहलधरधीरध्वान संहृष्टभेदः ।
भुजनिहतभुजंगः संसमुच्छित्य पद्मानुपतटमटतिस्म द्राक् मरुत्वानिवासौ ॥ ८ ॥ प्रविलसदतिभास्वत्पीतवासा बलेन प्रमदभरवशेन प्रोल्लसन्मेचकेन । सरभसमुपगूढश्वोवृतोऽमाद्भुजाभ्यामशितशितशिलाग्रेणैव सोन्दः सविद्युत् ॥ ९ ॥ निहितकमलभारान् गोपकैरग्रतोरिः परगुणमसहिष्णुः सोष्णमुच्छ्रस्य दृष्ट्वा । सममणदिति शीघ्रं नंदगोपात्मजाद्याः सरभसमिह गोपामल्लयुद्धाय संतु ॥ १० ॥ इति विहितमहाज्ञो मल्लयुद्धाय मल्लानतिकठिनकनिष्ठज्येष्ठमध्यप्ररूढान् । द्रुततरमुपकंठे स्वस्य चक्रे सचक्रक्रकचनिशितचित्तः कर्तुकामस्तदानीं ॥ ११ ॥ चरितमिदमकालक्षेपि विज्ञाय शत्रोः स्थिरमतिवसुदेवश्वाप्यनावृष्टियुक्तः । ज्ञपयितुमपि सर्व ज्येष्ठवर्गं सः वार्तामगमयदिह शीघ्रं सन्निधानाय तस्य ॥ १२ ॥ विदितरिपुविचेष्टास्ते नवज्येष्ठमुख्या रथतुरगपदातिप्रोन्मदेभैः स्वसैन्यैः ।
Jain Education International
त्रिंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org