________________
हरिवंशपुराणं ।
४६३
पत्रिंशः सर्गः। पदत्रिंशः सर्गः। अथ विरुवदलिज्यारूढवाणासनायां कलरवकलहंसीशंखशय्याश्रितायां । रिपुशिखिमदपक्षक्षोदपक्षोदयायां शरदि हरिनवश्रीलीलयाध्यासितायां ॥१॥ घननिवहविधातायौरभाञ्चंद्रहासा विघटितधनपंका मेदिनी कासहासा । कतिपयदिनभाविप्रौढकंसाभिघातप्रकटितहरिहासाकारविद्योततीव ॥ २ ॥ विपुलपुलिनकेन व्याजतः स्वच्छनद्यः सहजजलसरस्यः पुंडरीकापदेशात् । सितकुसुमनिभेन स्वैर्वनांतैश्च शैला हरियश इव शुभ्रं द्राग्दधाना विरेजुः ॥३॥ फलकुचगुरुभाराक्रांतिराक्रांतसस्यप्रचुररुचिरकासाकंचुकोद्भासमाना। प्रमदवशविकासिन्युर्वरा सर्वतोऽभादभिनवहरिकंठाश्लेषणोत्कंठितेव ॥ ४ ॥ प्रसवभरविभूतिव्यग्रताव्यग्रगर्भग्रहणसमयहृष्यद्गोवृषोद्धोषघोषाः।। शरदि हृदयतोषं तोषयंतिस्म विष्णोः प्रसभमिह रिपूणां पेषणं घोषयंतः ॥ ५ ॥ विदितहरिसमीहश्चापि कंसस्तदानीं पुनरपि तदपाये पापधीर्गोपवर्ग । कमलहरणहेतोदुर्गमत्यंगभाजां हृदमपि विषमाहिप्राहिणोद्यामुनं सः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org