________________
हरिवंशपुराणं।
४६५
षत्रिंशः सर्गः। सरभसमभिजग्मुर्भूतलं भूषयंतः शठहृदयमकस्मात्सस्मयं दारयंतः ॥ १३ ॥ चिरवियुतकनीयोदर्शनव्याजतस्तान्पृथुतरमथुरां तामागतान् यादवेंद्रान् । अभिमुखमपशंको वेत्य कंसः सशंको निभृतकृतनतिः प्रावेशयत्सानुजान् सः॥ १४ ॥ पुरपुरुगृहशोभादर्शनात्तृप्तवेत्रास्तदधिपतिनियुक्ता वासकास्ते यथेष्टं ।। प्रतिदिनमुपसेव्या दानमानप्रणामैः प्रणयमिव वहंतस्तस्थुरंतर्विदाहाः ।। १५॥ हलधृदवधृतार्थो मल्लयुद्धाभिलापं वृषलवधविशेषोदंतविज्ञो विधित्सुः । अतिनिपुणमतिस्तां सन्निधौ तस्य धीरो वदति लघु यशोदां स्नानमाकल्पयेति ॥ १६ ॥ चिरयसि किमिति त्वं विस्मृतात्मीयदेहे न सकृदसकृदुक्ता न स्वभावं जहासि । न हि शुचिशुभशुक्त्युत्पादितोदारमुक्तामणिरतिभृतवेला चापलं खं जहाति ॥ १७ ॥ इति सह चिरवासेप्युक्तपूर्वा न जातु यतिचकितभया सा साश्रुनेत्रा निरुक्तिः।। द्रुततरमुपकल्प्य स्नानमन्नप्रसिद्धयै प्रकृतमकृत यत्नं स्नातुमेतौ नदी तौ ॥ १८ ॥ अवददिति बलस्तं कृष्णमेकांतवर्ती किमिति मुखमिदं ते दीर्घनिश्वाससास्त्रं । हिमहतरुचिपअच्छायमच्छायमद्य प्रथयति पृथुमंतस्तापमाचक्ष्व हेतुं ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org