________________
४५७
हाविशपुराणं।
पंचत्रिंशः सर्गः। अतः शरीरामपरां पिशाची स चापती धनपादघाती ।
विभीर्वभंजांजनशैलशोभी पृथूदयस्तां पृथुकोऽपि कोपि ॥ ४४ ॥ यशोदया दामगुणेन जातु यदृच्छयोदूखलबद्धपादः। .
निपीडयंतौ रिपुदेवतांगौ न्यपातयत्तौ जमलार्जुनौ सः ॥ ४५ ॥ स नंदगोपेन यशोदया च सुदृष्टशक्तिः शुभशैशवादी।
स विस्मिताभ्यामाभिनंद्यमानो बालः स दृश्यो ववृधे वनांते ॥ ४६॥ स गोपतिं दृप्तमशेषघोषमितस्ततो दृष्टमुदग्रघोषं ।
__ महार्णवं वा प्रतिपूर्णयंतं जघान कंठोबलनात्सुकंठः ॥ ४७ ॥ कुदेवपाषाणमयातिवर्षैरनाकुलो व्याकुलगोकुलाय ।
दधार गोवर्धनमूर्ध्वमुच्चैः स भूधरं भूधरणोरुदोभ्यां ॥ ४८ ॥ अमानुष कृष्णविचेष्टितं तत्सकर्णमाकर्ण्य बलेन वर्ण्य ।
कृतोपवासव्यपदेशतोगाद्वजं सवित्री सुतदर्शनाय ॥ ४९ ॥ १-अनः इति ख पुस्तके । ' एनः' वा भवितुमर्हति । २-जमलार्जुनवृक्षरूपौ देवौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org