________________
हरिवंशपुराणं।
४५६
पंचत्रिंशः सर्गः। ततोऽष्टमाख्यानशनं तपोऽसौ चकार कंसो रिपुनाशबुद्धया ।
पुराभ्युपेतार्थसमर्थनाय सुदेवताः प्रोचुरुपेत्य तास्तं ॥ ३८ ॥ पुरा तपः साधितदेवतास्ता इमा वयं ते वद वस्तु कृत्यं ।
विहाय शीरायुधचक्रपाणी क्षणेन कः कंसरिपुर्निरस्यः ॥ ३९ ॥ जगावसौ कोऽपि ममास्ति वैरी प्रवर्धमानः कचिदप्यलक्ष्यः । ___तमाशु यूयं परिमग्य मृत्योर्मुखे कुरुध्वं करुणानपेक्षाः ॥ ४० ॥ इतीरितं ताः प्रतिपद्य याता प्रदृश्य चैकोग्रशकुंतरूपा ।
अनुद्य हंत्री हरिणात्ततुंडा प्रचंडनादा प्रणनाश भीता ॥४१॥ कुपूतना पूतनभूतमूर्तिः प्रपाययंती सविषस्तनौ तं ।
स देवताधिष्ठितनिष्ठुरास्यो व्यरीरटच्चूचुकभूषणेन ॥ ४२ ॥ स्वपनिषीदन्नुरसा प्रसर्पन पदं ददन् सस्खलितं प्रधावन् ।
कलाभिलापो नवनीतमद्यनजीगमज्जिष्णुरहर्दिनानि ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org