________________
हरिवंशपुराणं।
४५५
पर्धात्रंशः सर्गः। विलोक्य बालाममलाममुष्याः पतिः कदाचित्प्रभवेदरिर्मे ॥ ३१ ॥ विचिंत्य शंकाकुलितस्तदेति निरस्तकोपोऽपि स दीर्घदर्शी ।
स्वयं समादाय करेण तस्या अनुद्य नासां चिपिटींचकार ॥ ३२ ॥ स देवकीमानसतापकारी सुतांतदर्शी किल निर्वतात्मा ।।
अतिष्ठदंतर्हितरौद्रभावः सुखेन तावत्कतिचिद्दिनानि ॥ ३३ ॥ ततो वजस्थः कृतजातकर्मा स्तनंधयोसौ कृतकृष्णनामा ।
प्रवर्धते नंदयशोदयोस्तु प्रवर्धयन् प्रीतिमभूतपूर्वा ॥ ३४ ॥ गदासिचक्रांकुशशंखपद्मप्रशस्तरेखारुणपाणिपादः।
स गोपगोपीजनमानसानि सकाममुत्तानशयो जहार ।। ३५ ॥ सुरूपमिंदीवरवर्णशोभं स्तनप्रदानव्यपदेशगोप्यः ।
अहंयवः पूर्णपयोधरास्तमतृप्तनेत्राः पपुरेकतानं ॥ ३६ ॥ इतः कदाचिद्वरुणेन कंसो निमित्तविशेन हितैषिणोक्तः ।
नृपंधते ते रिपुरत्र कश्चित्पुरे वने वा परिमृग्यतां सः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org