________________
हरिवंशपुराणं।
४५४
पंचत्रिंशः सर्गः। प्रियोग्रसेनेन नृपेण दत्तां प्रियाशिषं तोषयुतोऽगदीशं ।
रहस्यरक्षा क्रियतां प्रतीक्ष विमुक्तिरस्मारव दैवकेयात् ।। २५ ।। प्रवर्धता भ्रातृशरीरजायाः सुतोयमज्ञातमरेरितीष्टं ।
तदौग्रसेनीमभिवंद्य वाचमम् विनिर्जग्मतुराशु पुर्याः ॥२६॥ ज्वलद्विषाणो वृषभः पुरस्तात्प्रदीपयन्मार्गमगात्स तूर्ण ।
महानुभावाद्यमुना हरेर्दाक् बभूव विच्छिन्नमहाप्रवाहा ॥ २७ ।। धुनी समुत्तीर्य ततोऽभिगम्य वनं च वृंदावममत्र गोष्ठे ।
सुनंदगोपं सयशोदमाप्तं क्रमागतं तो निशि दृष्टवंतौ ।। २८ ।। समये ताभ्यामहरस्य भेदं प्रवर्द्धनीयं निजपुत्रबुद्धया ।
शिशुं विशालेक्षणमीक्षणानां महामृतं कांतिमयं स्रवतं ॥ २९ ॥ ततश्च तत्कालभका यशोदाशरीरजां विश्वसनाय शत्रो।
अरं समादाय समेत्य देव्यै प्रदाय तौ तस्थतुरप्रलक्ष३० ॥ स्वमा प्रसूति प्रति विज्ञकंसः प्रसूत्यगारं निघृणः प्रविश्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org