________________
४५३
हरिवंशपुराणं ।
पंचत्रिंशः सर्गः। दिनानि मासानसमंजसात्मा गुणानपेक्ष्यो गणयन्नलक्ष्यः ॥१८॥ अथोदयादिश्रमणे तु पक्षे ह्यधोक्षजो भाद्रपदस्य शुक्ले ।
पवित्रयन् द्वादशिकां तिथि तामलक्षितः सप्तम एव मासे ॥ १९ ।। स शंखचक्रादिसुलक्षितांगः स्फुरन्महानीलमणिप्रकाशः।
स देवकीसूतिगृहं स्वदीप्त्या प्रदीपवान् द्योतयतिस्म कृष्णः ॥ २० ॥ स्वपक्षगेहेषु तदाऽऽविरासन् स्वतो निमित्तानि शुभावहानि ।
विपक्षगेहेषु भयावहानि प्रभावतस्तस्य नरोत्तमस्य ॥ २१ ॥ तदा च सप्ताहमहातिवर्षे प्रवर्तमाने निशि जातमात्रं ।
हली स्वपित्रा विकृतातपत्रं हरिं गृहीत्वा गहतो निरैद्राक् ॥ २२ ॥ अलक्षितः कंसभटैः प्रसुप्तैः प्रसुप्तपौरे समये पुरस्य ।
स गोपुरद्वारकपाटसंधिं विपाव्य विष्णुक्रमयुग्मसंगात ॥ २३ ॥ पयाकणे घ्राणपुटं प्रविष्टे शिशोस्तडिद्वातगभीरनादे ।
क्षुते चिरंजीव जयत्वविघ्नस्त्वमित्यनुश्चत्य तदोपरिष्टात् ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org