________________
४५१
हरिवंशपुराण।
पंचत्रिंशः सर्गः। प्रविश्य कंस स्वसृसूतिगेहं निरीक्ष्य निर्जीवितजीवयुग्मं ।
प्रगृह्यपादेषु निषादरौद्रः शिलातले ताडितवान् सशंकः ॥६॥ क्रमेण स द्वंद्वयुगं प्रयातं निनाय देवोऽप्यलकां मुकामां ।
पुनश्च कंसोप्यमविप्रयुक्तमताडयत्पूर्ववदेव पापी ॥७॥ षडप्यविघ्ना वसुदेवपुत्रा स्वपुण्यरक्ष्यास्त्वलकातिहृद्या । __पुरोक्तसंज्ञासुखलालितास्ते शनैरवर्धत ततोऽतिरूपाः ॥ ८॥ प्रवर्धमानेष्वथ तत्र तेषु सुदृष्टिसुश्रावकभूतिवृद्धिः ।
अपूर्वनानाविधवस्तुलाभैस्तदात्यशेतापरभूपभूमिः ॥९॥ इतोऽपि देवक्यपि भर्तृवाक्यादपाकृतापत्यवियोगदुःखा ।
शनैः प्रपेदे प्रतिपत्कलेव दिनोत्तरैः पूर्ववदेव कांति ॥ १०॥ अथैकदा चंद्रशिते निशांते निशांतकांते शयने शयाना । __ददर्श सप्तोदयशंसिनः सा पदार्थकान् स्वप्न इमानिशांते ॥११॥ प्रदीप्तमुद्यतमिनं तमोऽतं समंतकांतं शशिनं प्रपूर्ण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org