________________
४५०
हरिवंशपुराणं ।
पंचत्रिंशः सर्गः। पंचत्रिंशः सर्गः। अरिष्टनेमेश्वरितं निशम्य यदुः परं श्रेणिक संप्रहृष्टः ।
प्रणम्य भावादतिमुक्तिकर्षि जगाम कांतासहितो निशांते ॥ १॥ यथा पुरा तौ मथुरासुपुर्या यथेष्टमाक्रीडनयातिसक्तौ ।
सुदंपती तस्थतुरिष्टभोगौ सशंककंसेन समय॑मानौ ॥ २॥ बभार गर्भ युगलात्मकं सा सुदेवकी कंसभयस्य हेतुं ।
सहायभावो हि विपक्षयोगान्महाभयस्योपनिपातहेतुः ॥३॥ अथ प्रसूतौ सुतयुग्ममस्याः सुरेण संक्रामितमिंद्रवाक्यात् ।
सुनैगमेतिश्रुतिना सुभद्रं सुभद्रिलोद्भूतपुरोक्तधान्याः ॥४॥ प्रजातमात्रं खलु दैवयोगात् सुदृष्टिजायाव्यसुपुत्रयुग्मं ।
____ स देवकीसूतिगृहे निधाय जगाम देवो निजदेवलोकं ॥५॥ . १मृत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org