________________
४४९
हरिवंशपुराणं।
चतुस्त्रिंशः सर्गः। धेनोरिव निजवत्से सौत्सुक्यधियः सधर्मणि स्नेहः । ___प्रवचनवत्सलता स्यात्सस्नेह प्रवचने यस्मात् ।।१४८॥ तीर्थकरनामकर्मणि षोडश तत्कारणान्यमून्यनिशं ।
व्यस्तानि समस्तानि च भवंति सद्भाव्यमानानि ॥१४९॥ त्रैलोक्यासनकंपसक्तमुवृहत्पुण्यप्रकृत्यात्मकः ।
प्रत्याख्याय स सुप्रतिष्ठसुमुनिर्भक्तं ततो मासिकं ॥ आराध्याथ चतुर्विधां बुधनुतामाराधनां शुद्धधी
त्रिंशजलधिस्थितिः पुरुसुखं स्वर्ग जयंतं स्थितः ॥ १५० ॥ मुक्त्वा संसृतिसारसौख्यमतुलं तत्राहमिंद्रोचितं ।
सज्ज्ञानत्रयदृष्टनेत्रसकलत्रैद्योक्यनेत्रस्थितिः ॥ च्युत्वातो भविता समुद्रविजयाद्देव्यां शिवायां शिवो ।
नेमीशो हरिवंशशैलतिलको द्वाविंशसंख्यो जिनः ॥१५१॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ महोपवासविधिवर्णनो नाम चतुस्त्रिंशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org