________________
४४५
हरिवंशपुराणं ।
चतुस्त्रिंशः सर्गः। द्वौ नवानुदिशेष्वेतौ द्वौवानुत्तरपंचके । अष्टाषष्टिरमी सर्वे स्युर्दुःखहरणे विधौ ॥१२०॥ नामतस्त्रिनवत्वादीरुत्तरप्रकृतीः प्रति । ते चत्वारिंशदष्टाभिः कर्मक्षयविधौ स तं ॥१२१॥ कल्याणातिविशेषैः प्रतिकार्यैः प्रातिहार्यकारणागः ।
जिनगुणसंपत्तिस्तैः पंचचतुस्त्रिंशदष्टषोडशभिः ॥ १२२ ॥ द्वात्रिंशता चतुःषष्टया ह्यष्टोत्तरशतेन तैः।
दिव्यलक्षणपंक्तिःस्यादिव्यातिमहतः पराः ॥ १२३ ॥ स्यात्परस्परकल्याणाश्चतुर्विंशतिवारतः ।
आदौ षष्ठोपवासःस्यात्समाप्तावष्टमस्तथा ॥ १२४ ॥ विधीनामिह सर्वेषामेषा हि च प्रदर्शना ।
एकश्चतुर्थकाभिख्यो द्वौ षष्ठं तु त्रयोष्टमः । दशमाद्यास्तथा वेद्या षण्मास्यंतोपवासकाः ।। १२५ ।। पंचदशीपर्यंता उपवासाः प्रतिपदादि तिथिषु कार्या ।
बहुभेदा विज्ञेया जिनमार्गे सर्वसौख्यसंपन्नाः ॥ १२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org