________________
हरिवंशपुराणं।
४४४
चतुस्त्रिंशः सर्गः। भावोपमाव्यवहारप्रतीत्यसंभावनासुभाषायां । जनपदसंवृतिनामस्थापनारूपा दश नवघ्नाः॥ षट्चत्वारिंशद्दोषानेषणासमितौ मतान् । नवघ्नानिघ्नितुं कार्यास्तावंत उपवासकाः ॥१०८ ॥ त्रयोदशविधस्यैव चरित्रस्य विशुद्धये । विधौ चरित्रशुद्धौ स्युरुपवासाः प्रकीर्तिताः ॥ १०९ ।। निर्विकृतिपश्चिमाद्वारकस्थानं तथोपवासश्च । आचाम्ल-मुक्तमेकं तपोविधिस्त्वेककल्याणः ॥११०॥ पंचकृत्वः कृतावश्या पंचकल्याण उच्यते। चतुर्विंशतिसंख्यान सा कार्यस्तीर्थकरान् प्रति॥१११॥ तुर्यव्रतोपवासैस्तु शीलकल्याणको विधिः । पंचविंशतिसंख्यैस्तैीवनाविधिरिष्यते ॥११२॥ पंचविंशतिकल्याणभावानविधिरत्र तैः । तावद्भिरेव बोद्धव्यो विद्वद्भिपर्णितः ॥११३॥ सम्यक्त्वविनयज्ञानशीलसत्वश्रुतश्रुताः । समित्येकांतगुप्तीनां भावना धर्मशुक्लगाः ॥११४॥ स क्लेशेच्छानिरोधस्य संवरस्य च भावना । प्रसुप्तयो संवेगकारणाद्वेगभावनाः ॥११५॥ भोगसंसारनिर्वेदमुक्तिवैराग्यमोक्षजाः। मैन्युपेक्षा प्रमादांताः ख्याताः कल्याणभावनाः ॥११६॥ प्रतीत्य सप्तभूमीनां जघन्यपरमायुषां । चतुर्दशोपवासास्तु विधेया विधिवबुधैः ॥११७॥ तिर्यग्गतावपर्याप्तपर्याप्तानां नृणां गतौ । प्रत्येकमपि चत्वारः प्रशमांते प्रबुद्धयन् ॥११८॥ द्वाविंशविरतस्तूयमच्युतांतेष्वमी ततः । ग्रैवेयकेषु कर्तव्या अष्टादश नवस्वपि ॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org