________________
४४१
हरिवंशपुराणं।
चतुस्त्रिंशः सर्गः। सवृद्धया पौर्णमास्यामुपवसनयुतोद्भासयन् ग्रासमग्रे सामावस्योपवासः स भजति तपसथंडगत्यानुपूर्व्या
चाळ चंद्रायणस्य प्रविततयशसः कर्तृणः कर्तृभावं ।। ९० ॥ प्रागुपोष्य कवलस्य भोजनं सप्तमांतमपि सैकवृद्धिकं ।
सप्तकृत्व इति यत्र तु क्रिया सप्तसप्तमतपोविधिस्त्वसौ ॥ ९१ ॥ अष्टाष्टमनवनवमौ दशदशमैकादशो विधयः ।
द्वात्रिंशद्वात्रिंशद्विध्यंता एवमात्मका बोध्याः॥९२ । एकद्वित्रिचतुःपंचषट्सप्ता भुक्तिपिंडकाः ।
प्रत्येकं सप्तमं ता स्युः सप्तसप्तमकेऽथवा ।। ९३ ॥ अष्टांतादिषु विज्ञेयः शेषेश्वपि विधिस्त्वयं ।
१ -अमावस्यामुपवासः प्रतिपदि एककवलाहार: एवं क्रमेण चतुर्दश्याम् चतुर्दशकवलाहार: तत उपवासः कृष्णप्रतिपदि चतुर्दशकवलाहारः एवमूनक्रमेण पुनरमावस्यायामुपवासः। २ प्रथमदिने उपवासः पुनरेकैकवृद्धिक्रमण अष्टमदिवसे सप्तकवलाहारः पुनर्हानिक्रमेणोपवासः एवं सप्तवारं कर्तव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org