________________
हरिवंशपुराण।
चतुस्त्रिंशः सर्गः। वेगश्रमागतस्वेदलवमुक्ताफलार्चिता । प्राप्य नत्वा ददौ पित्रे सिद्धशेषां प्रमोदिने ॥ ३० ॥ ततो लब्धजया पित्रा मुक्ता मुक्तैहिकस्पृहा । नित्यंते प्रवव्राज व्रतवातविभूषिता ॥३१॥ गतियुद्धे जितास्तपि चिंतागत्यादयस्तथा । दीक्षां दमवरस्यांते त्रयोऽपि भ्रातरो दधुः ॥३२॥ अंते माहेंद्रकल्पांत प्राप्तसप्ताब्धिजीविनः । सामानिकास्त्रयोऽप्यत्र दिव्यं बुभुजिर सुखं ॥ ३३॥ प्रच्युत्य पुष्कलावत्यामुदक्श्रेण्यां ततो नृपः । मध्यमावरजौ जातौ पुरे गगनवल्लभे ॥ ३४ ॥ सुतौ गगनसुंदयां गगनेंदोः क्रमेण तौ । प्रथमोऽमितवेगाख्योऽमिततेजास्ततोऽनुजः ॥ ३५ ।। दीक्षित्वा पुंडरीकिण्या स्वयंप्रभाजनांतिके । श्रुत्वा पूर्वभवांस्तस्मात्तावावामिह पार्थिव ॥३६॥ पूर्व प्रच्युत्य माहेंद्रात्प्रजातमपराजितं । ज्यायांसं दृष्टुमायातौ त्वां चिंतागतिपूर्वकं ॥ ३७॥ अरिष्टनेमिनामार्हन् भविता भरतावनौ । हरिवंशमहावंशे त्वमितः पंचमे भवे ॥ ३८ ॥ आयुर्मासावशेषं ते सांप्रतं पथ्यमात्मनः । क्रियतामिति तावुक्त्वा तमापृच्छय गतौ यती ॥३९॥ श्रवणीयं वचः श्रुत्वा चारणश्रमणस्य सः । प्रहृष्टोऽपि चिरं दध्यौ तपः कालव्यतिक्रमं ॥४०॥ अष्टाहं प्रविधायासौ जिनेंद्रमहिमा ततः । प्रीतिकरे श्रियं न्यस्य शरीरादिषु निस्पृहः ॥४१॥ ... १ निवृत्तिनामिकार्यिकासमीपे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org