________________
हरिवंशपुराणं ।
चतुखिराः सर्गः ।
पुत्रास्त्रयस्तयोश्चिंतामनश्चपलपूर्वकाः । गत्यंता वेगवंतस्ते स्नेहवंतः सुपौरुषाः ॥ १७ ॥ तत्रैवारिंजयो राजा पुरेऽरिंजयसंज्ञके । कन्याऽस्याजितसेनायां जाता प्रीतिमती वरा ॥ १८ ॥ सिद्धविद्या प्रसिद्धाsस स्त्रैणगर्हणकारिणी । गुरुं प्राह वरं देहि पितरेकमभीप्सितं ॥ १९ ॥ कन्याकूतविदूचे स वृणीष्व वरमीप्सितं । तपसोऽन्यमितीदं च श्रुत्वाऽह प्रीतिमत्यपि ॥ २० ॥ तपोवरप्रसादो मे पितर्यदि न दीयते । गतियुद्धे विजेत्रेऽहं देयेत्येष वरोऽस्तु मे ॥ २१ ॥ तथाऽस्त्वित्यभिधायासावाजुहाव नभश्वरं । स्वयंवरे स्वकन्याया गतियुद्ध जिगीषया ॥ २२ ॥ विश्वान् विद्याधरान् प्राप्तान् प्राह कन्यापिता ततः । गतियुद्धे समर्थोऽस्या ददातुर्दुहितुर्मम २३|| मेरुं प्रदक्षिणीकृत्य कृत्वा जिनवराचनं । प्राप्तस्येह द्वयोः पूर्वमेकस्य विजयो मतः ॥ २४ ॥ जीयेत येन कन्येयं गतियुद्धेऽतिवेगिना । परिणेया तेन वीरेण मन्मनोरथ पूरिणा ।। २५ ।। श्रुत्वेति खेचरास्तस्थुर्ज्ञात्वा विद्याधिकाममूं । विद्यावगोद्यता योद्धुमुत्तस्थुर्धारिणीसुताः ||२६|| ततः परिकरं बद्ध्वा चेतसा च समं तदा । करमास्फाल्य लोकेन मुक्ता माध्यस्थमीयुषा ॥ २७॥ अहं वो दधावुस्ते सार्द्धमर्द्धपथं पथा । मारुतां मेरुमुद्दिश्य हरंतो मरुतां रयं ॥ २८ ॥ अतिक्रम्य तथा कन्या परीत्य सुरपर्वतं । भद्रशालवनेऽभ्यर्च्य जिनाचः प्राङ् न्यवर्तत ||२९||
Jain Education International
४३२
For Private & Personal Use Only
www.jainelibrary.org