________________
४३१
हरिवंशपुराणं।
चतुस्त्रिंशः सर्गः। जायाऽस्य जिनदत्ताऽसौ कृतोरुजिनपूजना । लेभे श्रीभमृगेंद्रार्कचंद्रसुस्वप्नदृक् सुतं ॥४॥ अपराजित इत्याख्यां स परैरपराजितः । पितृभ्यां लंभितो द्यावापृथिव्योः प्रथितां ततः ॥५॥ पुत्रीं चक्रभृतस्तत्र पवित्रगुणमालिनीं । कन्यां प्रीतिमती मान्यामुपयेमे स यौवने ॥६॥ तमन्योऽन्यातिशयिन्यो मानिन्यो गुणमंडनााः । कन्याश्चारीरमद्धन्याः सहस्रगणनाः पतिं ॥७॥ राजा मनोहरोद्याने वंद्यं देवैर्विवंदिषुः । अन्येयुः ससुतो यातो जिनं विमलवाहनं ॥८॥ प्रवव्राज नृपोऽस्यांते पंचराजशतान्वितः । बभ्रेऽपराजितो राज्यं सम्यक्त्वं चैव निर्मलं ॥९॥ जिनेंद्रपितृनिर्वाणं गंधमादनपर्वते । श्रुत्वा कृत्वाऽष्टमं भक्तं कृतनिर्वाणभक्तिकः ॥१०॥ जिनार्चा चैत्यगेहार्चा समय॑ धनदापितां । आसीनो जातु जायाभ्यो धर्म स प्रौषधोऽबुधत् ॥११॥ काले तत्र मुनी व्योम्नश्चारणाववतेरतुः । नत्वा क्षितौ सुखासीनौ पप्रच्छेति कृतांजलिः ॥१२॥ तोषः साधुषु मे नाथौ ! जैनस्याकृत्रिमो युवां । अपूर्वो वीक्ष्य किं जातः सहजस्नेहवर्मनः ॥१३॥ अस्ति तत्पूर्वसंबंधः स्नेहाधिक्यप्रबोधनः । राजनित्याह तत्राद्यः सवनिय गिरामृतं ॥१४॥ पाश्चात्यपुष्करार्द्धस्य विदेहस्यापरस्य हि । रौप्यागुरुत्तरश्रेण्यामस्ति गण्यपुरं पुरं ॥१५॥ सूर्याभवितु (नु) रस्यासासीत्सूर्याभ इति भूपतिः। धारिणी धारिणीवार्या गृहिणी तस्य हारिणी।१६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org